________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेवेदादेवेति । वेदविप्लावकवचनेषु सत्स्वपि वेदविरुद्धधर्मपरिहारेण वैदिकधमेषु स्थैर्यमपरमा धृतिः ॥ १४ ॥
इति विज्ञाननिष्पत्तिधृतिः प्रोक्ता हि वैदिकैः ॥
अहमात्मा न मोऽस्मीत्येवमप्रच्युता मतिः ॥१५॥ परमामाह-अहमात्मेति । उक्ता हि धृतिदेहाद्विविक्तात्मविषयेति परमा धृतिः ॥१५॥
या सा प्रोक्ता धृतिः श्रेष्ठा मुने वैदैकवेदिभिः ॥
अल्पमिष्टाशनाभ्यां तु नास्ति योगः कथंचन ॥१६॥ अल्पेति । अल्पाशने तु धातुसंक्षोभः । अधिकेऽजीणं निद्रालस्यादि वा । अतो मिताहारो योगामिति । उक्तं च
"अन्नेन कुक्षेद्वीवंशौ पानेनैकं प्रपूरयेत् । पाणसंचरणार्थं तु चतुर्थमवशेषयेत् ।।
गुरूणामर्धसौहित्यं लघूनां नातितृप्तता" इत्यादि वैद्यशास्त्रोक्तं द्रष्टव्यम् ॥ १६ ॥
तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥
स्वदेहमलनिमोक्षो मृजलाभ्यां महामुने ॥ १७ ॥ स्वदेहेति ।
"शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृजलाभ्यां भवेदाचं भाव शुद्धिस्तथाऽऽन्तरम्'। इति स्मरणात् ॥ १७ ॥
यत्तच्छौंचं भवेद्बाह्यं मानसं मननं विदुः॥
अहं शुद्ध इति ज्ञानं शौचं वाञ्छन्ति पण्डिताः ॥१८॥ अहं शुद्ध इति ।
"स्थानाद्वीजादुपष्टम्भान्निष्पन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः"। अतस्तदविवेक एवाशौचं तद्विवेकज्ञानं शौचमित्यर्थः ॥ १८ ॥
अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ॥ उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ १९ ॥
१ घ. निवृत्ति ।
For Private And Personal Use Only