________________
Shri Mahavir Jain Aradhana Kendra
अध्यायः १३]
www.kobatirth.org
सूतसंहिता ।
'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यम्' इति
Acharya Shri Kailassagarsuri Gyanmandir
ऋतौ स्वभार्यासेवा तु ब्रह्मचर्यमेव । ऋताविति विहितकालोपलक्षणम् । श्रूयते हि -- "प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यते " इति ॥ १० ॥
ब्रह्मभावे मनश्वारं ब्रह्मचर्यं परं तथा ॥ आत्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ ११ ॥ अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः ॥ पुत्रे मित्रे कलत्रे च रिपौ स्वात्मनि संततम् ॥ १२ ॥ ब्रह्मभाव इति । ब्रह्मात्मैकत्वे मनसश्चरणं ब्रह्मचर्यम् । श्रूयते हि
"येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया च " इति । अत्र परमपरं ब्रह्मचर्यं विवक्षितम् ॥
२०५
आत्मवदिति । अनुकम्पा रक्षाभिमुखी बुद्धिः । यदुक्तमागमे --- " रोगार्तस्य रिपोर्वाऽपि मित्रस्पान्यस्य वा पुनः । तद्रक्षाभिमुखी बुद्धिर्दयैषा भाषिता बुधैः" इति । पुत्रे मित्र इति । तदुक्तं गीतासु -
"मुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते " इति ॥ ११॥१२॥
For Private And Personal Use Only
ऐकरूप्यं मुने यत्तदार्जवं प्रोच्यते मया ॥ कायेन मनसा वाचा शत्रुभिः परिपीडिते ॥ १३ ॥ कायेनेति । त्रिभिरपि करणैः पीडने चित्तविक्षेपविरहः क्षमा ।। १३ ।। चित्तक्षोभनिवृत्तिर्या क्षमा सा मुनिपुंगव ॥ वेदादेव विनिर्मोक्षः संसारस्य न चान्यथा ॥ १४ ॥
१ घ. प्राणा वा । २ घ. ऐक्यरूपं ।
-