SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे"योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति । अतो ज्ञानेन तन्निरासः परमाऽहिंसेत्यर्थः ॥ ५ ॥ यत्त्वदुष्टेन्द्रियैदृष्टं श्रुतं वेदविदां वर ॥ तस्यैवोक्तिर्भवेदिप्र सत्यता नान्यथा भवेत् ॥६॥ अहिंसावत्सत्यमपि परमपरं चेति द्विविधम् । तत्रापरमाह-यत्त्वदुष्टेति । भ्रमदृष्टाभिधानं प्रमाणदृष्टस्यापि रागादिभिरन्यथाभिधानं चासत्यमित्यर्थः॥६॥ सर्व सत्यं परं ब्रह्म न चान्यदिति या मतिः॥ तत्सत्यं परमं प्रोक्तं वेदान्तज्ञानभावितैः ॥७॥ परमं सत्यमाह-सर्व सत्यमिति । सर्वं वस्तु ब्रह्मस्वरूपेणैवं सत्यं पृथक्केनासत्यमिति यज्ज्ञात्वाऽभिधानं तत्सत्यमित्यर्थः ॥ ७ ॥ अन्यदीये तृणे रत्ने काञ्चने मौक्तिकेऽपि वा ॥ मनसाऽपि निवृत्तिर्या तदस्तेयं विदुर्बुधाः ॥८॥ अस्तेयमपि द्विविधम् । तत्राऽऽद्यमाह-अन्यदीय इति । मृदुमध्याधिकमात्रा इत्युक्तभेदोपलक्षणत्वेन तृणादिविभागकथनम् ॥ ८ ॥ आत्मनोऽनात्मभावेन द्यपहारविवर्जनम् ॥ यत्तदस्तेयमित्युक्तमात्मविद्भिर्महात्मभिः॥९॥ द्वितीयमस्तेयमाह--आत्मन इति । अनात्मा देहेन्द्रियादिस्तद्रूपतयैवाऽऽत्मनो यत्परिज्ञानं स आत्मापहारः। "योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणाऽऽत्मापहारिणा" इत्युक्तम् । तद्विवर्जनं देहेन्द्रियादिव्यतिरिक्तात्मानुसंधानं परममस्तेयमित्यर्थः ॥ ९ ॥ कायेन मनसा वाचा नारीणां परिवर्जनम् ॥ ऋतुसेवां विना स्वस्यां ब्रह्मचर्य तदुच्यते ॥ १०॥ अपरं ब्रह्मचर्यमाह-कायेनेति । अनुरागपुरःसराणि नारीणां स्पर्शभाषणचिन्तनान्यब्रह्मचर्यम् । उक्तं हि-- १ घ. 'दृश्यस्या । २ घ. व सम्यक् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy