________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१३] सूतसंहिता।
२०३ अहिंसा सत्यमस्तेयं ब्रह्मचर्य दयाऽऽर्जवम् ॥
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥३॥ उद्देशक्रमेण यमस्य लक्षणमाह-अहिंसेत्यादि ॥ ३ ॥
वेदोक्तेन प्रकारेण विना सत्यं तपोधन ॥
कायेन मनसा वाचा हिंसा हिंसा न चान्यथा ॥४॥ "न हिंस्यात्सर्वा भूतानि" इति निषेधः स रागनिबन्धनाया एव हिंसायाः। अतः "अग्नीषोमीयं पशुमालभेत" इति विधिनिबन्धना हिंसा न निषिध्यत इत्याह-वेदोक्तेनेति । अग्नीषोमीयस्य हि सोमयागादत्वात्तद्धिंसा विधिनिवन्धना । "इयेनेनाभिचरन्यजेत" इत्यत्रापि श्येनयागाङ्गभूतपशुहिंसा विधिनिबन्धनैव न निषिध्यते । या तु तेनाभिचारयागेन शत्रुवात्मिका हिंसा सा द्वेषनिबन्धनैवेति विध्यसंस्पर्शानिषिध्यते । शारीरहिंसाया एव हिंसात्वं न पुन
चिकमा सयोरिति भ्रमनिरासाय तद्भेदानाह-कायेनेति । साऽप्येकैका त्रिविधा । स्वयं कृताऽन्येन कारिता क्रियमाणा केवलमनुमोदिता चेति नवधा । तत्राप्येकैका त्रिविधा । लोभमूला क्रोधमूलाऽज्ञानमूला चेति सप्तविंशतिधा । साऽप्येकैका त्रिविधा । मृदुमात्रा मध्यमात्राऽधिकमात्रा चेत्येकाशीतिर्हि हिंसाभेदा वितर्कनामानस्त्यक्तव्याः। तत्त्यागोपायश्च तेषां निरतिशयदुःखहेतवस्तत्त्वज्ञानप्रतिबन्धकाश्चेति प्रणिधानम् । एतच्च सत्यवचनादिवितर्कान्तरेष्वपि द्रष्टव्यम् । तदुक्तं योगशास्त्रे___ "वितर्कबाधने प्रतिपक्षभावनम्" 'वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्' इति ॥ ४ ॥
आत्मा सर्वगतोऽच्छेद्य अदाह्य इति या मतिः॥
सा चाहिंसा परा प्रोक्ता मुने वेदान्तवेदिभिः॥५॥ कायिकादिहिंसाया वर्जनमुक्त्वाऽऽत्महिंसाया वर्जनमाह-आत्मा सर्वगत इति ।
"अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः' इति । उक्तस्याऽऽत्मस्वरूपस्याज्ञानमात्महिंसा । यदाहुः
क. ते । शरी । २ ख. नसिकयो । ३ क. ख. घ. धिकमा ।
For Private And Personal Use Only