________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेअज्ञानमलपङ्क यः क्षालयेज्ज्ञानतोयतः॥ स एव सर्वदा शुद्धो नाज्ञः कर्मरतो हि सः ॥ १९॥ वस्तुभूतश्लेष्मादिमलनिरसनं हि वस्तुभूतेनैव पवनेन भवति । नित्यशुद्धस्वप्रकाशचिदानन्दैकरस आत्मा त्वविद्यामलेनैव मलिन इति विद्यया तन्निरासे स्वाभाविकी तस्य शुद्धिर्व्यवतिष्ठत इत्याह-आत्मा शुद्ध इति ॥१८॥१९॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ॥
कर्म कर्तव्यमित्येवं बोधयेत्तान्समाहितः ॥२०॥ इति श्रीस्कन्दपुराणे मूतसंहितायां ज्ञानयोगखण्डे
नाडीशुद्धिनिरूपणं नाम द्वादशोऽध्यायः॥१२॥ इयमेव यदि प्रशस्ता किमिति तर्हि भूतपूर्वा शुद्धिः शास्त्रैरुपदिश्यत इत्यत आह-न बुद्धिभेदमिति ! अज्ञो हि कर्माण सक्तो ज्ञानानधिकृत इति तस्य कृते साऽपि शुद्धिर्वक्तव्येत्यर्थः ॥ २०॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नाडीशुद्धि
निरूपणं नाम द्वादशोऽध्यायः ॥ १२ ॥
(अथ त्रयोदशोऽध्यायः)
ईश्वर उवाच
अथातः संप्रवक्ष्यामि तवाष्टाङ्गानि मुव्रत ॥ यमश्च नियमश्चैव तथैवाऽऽसनमेव च ॥१॥ प्राणायामस्तथा विप्र प्रत्याहारस्तथा परः॥
धारणा च तथा ध्यानं समाधिश्वाष्टमो मुने ॥२॥ यत उक्तनाडीशोधनसामाणि यमादीन्यष्टौ योगालान्यतस्तदनन्तरं तदभिधानमिति पतिजानीने-अशात इति ॥ १ ॥२॥
ग. शसच्चिदा।
For Private And Personal Use Only