SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय ः ११] सूतसंहिता । १९३ इडापिङ्गलयोरिति । अमावास्यायां हि चन्द्रार्कौ सहेवोदयं सहैवास्तं च प्रतिपद्येते । इडावर्ती च प्राणश्चन्द्रः पिङ्गलावतीं सूर्यः संधिसमये चोभपत्र प्राणः सम एव वर्तमानः सहैवोदेति सहैव चास्तमेतीति सामावास्या ॥ ४४ ॥ अमावास्या तदा प्रोक्ता देहे देहभृतां वर ॥ मूलाधारं यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४५ ॥ I मूलाधारमिति । सूर्यो हि प्राणः । तथा च प्रश्नोपनिषदि - " आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः" इति । स च प्राणो मूलाधारप्रवेशानन्तरमुदेति । मूर्घप्रवेशानन्तरं प्राणतो द्विषडङ्गले चास्तमेति । देवानां चाऽऽद्यविषुवे मेपापने सूर्योदयः । विषुवान्तरे तुलायने चास्तमय इति ॥ ४५ ॥ तदाऽऽयं विषुवं प्रोक्तं तापसैस्तापसोत्तम ॥ प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्रविशेयदा ॥ ४६ ॥ प्राणोदयास्तमयसमयौ विषुवद्वयत्वेनोक्तौ । अत्रामावास्यात्वेनोक्तो यः संधिसमयः स एव विषुवद्वयत्वेनोक्तः । द्विशतिकालोत्तरे - " मध्ये तु विषुवं प्रोक्तं पुटद्वय विनिःसृतम् " इति । तत्र दक्षिणाद्वामगमनसमये यः संधिः स उत्तरायणमध्यवर्तित्वादाद्यविषुवकालः । इतरस्तु दक्षिणायनमध्यवर्तित्वाद्वितीय विषुव काल इति ॥ ४६ ॥ तदाऽन्त्यं विषुवं प्रोक्तं धार्मिकैस्तत्त्वचिन्तकैः ॥ निःश्वासोच्छ्रासनं सर्व मासानां संक्रमो भवेत् ॥४७॥ संक्रमकालमाह – निःश्वासेति । इडाचारिणां निःश्वासोच्छ्वासानां ततः सकाशाद्यः सुषुन्नाप्रवेशकालस्ततश्च पुनः पिङ्गलाप्रवेशकालस्ततः पुनः सुषुम्नाप्रवेशकालः पुनरिडाप्रवेशकाल इति । तेऽविशेषेण संक्रमकाला इत्यर्थः । तदुक्तं कालोत्तरे 'संक्रान्तिः पुनरस्यैव स्वस्थानानिलयोगतः' इति । स्वस्यानिलस्य यानीडापिङ्गलामुपुन्नास्थानानि तेषां तद्योगत इत्यर्थः । तथा च स्पष्टीकृतं तत्रैव "इडा च पिङ्गला चैव अमा चैव तृतीयका | सुषुम्ना मध्यमे ह्यङ्ग इडा वामे प्रकीर्तिता । पिङ्गला दक्षिणे ह्यङ्ग एषु संक्रान्तिरिष्यते " इति । अमा सुषुम्ना । तत्र हि सूर्याचन्द्रमसोः सहैवोदयास्तमयौ भवत इति ॥४७॥ २५ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy