SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ तात्पर्यदीपिकासमेता [२ज्ञानयोगखण्ड. इडायाः कुण्डलीस्थानं यदा प्राणः समागतः ॥ सोमग्रहणमित्युक्तं तदा तत्त्वविदां वर॥४८॥ इडाया इति । इडासंचारिणः प्राणस्य चन्द्रात्मकत्वात्तस्य मुप्तसाकारकुण्डलीस्थानेऽन्तहितत्वान्स सोमग्रहणकाल इत्यर्थः ॥ ४८ ॥ तथा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ॥ यदा तदा भवेत्सूर्यग्रहणं मुनिसत्तम ॥४९॥ नया पिङ्गलयेति । पिङ्गलाचारिणः प्राणस्य सूर्यात्मकत्वात्पूर्ववदेव तस्यापि ग्रहणम् ॥ ४९ ॥ श्रीपर्वतः शिरस्थाने केदारं तु ललाटके ॥ वाराणसी महाप्राज्ञ ध्रुवोर्घाणस्य मध्यमे ॥ ५० ॥ योगिनः शरीरगतस्थानभेदानामेव तत्तत्तीर्थविशेषतामाह-श्रीपर्वत इति ॥ ५० ॥ भ्रुवोर्माणस्य यः संधिरिति जाबालकी श्रुतिः । कुरुक्षेत्रं कुचस्थाने प्रयागो हृत्सरोरुहे ॥ चिदम्बरं च हृन्मध्य आधारः कमलालयः ॥५१॥ जाबालकी श्रुतिरिति । “अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽ. विमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नासीति सर्वानिन्द्रियकृतान्दोषान्वारयति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापानाशयति तेन नासी भवतीति कर्तमं चास्य स्थानं भवतीति भ्रुवोणिस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवति" इति हि तत्र श्रूयते ॥ ५१ ॥ आत्मस्थं तीर्थमुत्मृज्य बहिस्तीर्थानि यो व्रजेत् ॥ करस्थं स महारलं त्यक्त्वा काचं विमार्गति ॥ ५२ ॥ उक्ततीर्थानां बाह्यतीर्थेभ्यो विशेषमाह-आत्ममिति । विमाति गवेषते ॥ ५॥ ग. 'मला। २ ङ. तमच्चास्य। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy