SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ तात्पर्पदीपिकासमेता- [रज्ञानयोगखण्डेकुहोः कुर्देवता प्रोक्ता गान्धारी चन्द्रदेवता ॥ शखिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजापतिः॥४०॥ उक्तनाडीनामधिष्ठातृदेवता आह-सुषुम्नायाः शिव इत्यादि ॥ ३७॥३८॥ ३९॥ ४० ॥ विश्वोदराभिधायास्तु भगवान्पावकः पतिः ॥ इडायां चन्द्रमा नित्यं चरत्येव महामुने ॥४१॥ दिनरात्रिषु विषुवायनग्रहणानि देहे दर्शयितुं तेषां चन्द्रसूर्यायत्तत्वात्तयोरेव तावदेहेऽवस्थानमाह-इडायां चन्द्रमा इति । अत एवेडायां पवनस्योद्गमकालो रात्रिः । प्रवेशकालस्त्वहः । रात्रावहनि च परिपूर्णस्य चन्द्रस्योदयास्तमयनियमात् । पिङ्गलायां तु पवनस्योद्गमो दिनं प्रवेशो रात्रिः । तदुक्तं प्रपञ्चसारे--- "देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः । नाडीभ्यामस्तमभ्येति घाणतो द्विषडङ्गले ॥ अहोरात्रमिनेन्दुभ्यामूर्ध्वाधोवृत्तिरिष्यते" इति ॥ ४१ ॥ पिङ्गलायां रविस्तद्वन्मने वेदविदांवर ॥ पिङ्गलाया इडायां तु वायोः संक्रमणं तु यत् ॥४२॥ तदुत्तरायणं प्रोक्तं मुने वेदार्थवेदिभिः ॥ इडायाः पिङ्गलायां तु प्राणसंक्रमणं मुने ॥४३॥ पिङ्गलाया इति । प्राङ्मुखस्थितस्य हि पुरुषस्य पिङ्गला दक्षिणदिशि भवति । इडा तूत्तरदिशि । मकरायनसमये च दक्षिणदिगस्थितः सूर्यः कर्कटायनपर्यन्तं नित्यमुत्तरो गच्छतीति तदुत्तरायणं यथा। एवं पिङ्गलायां स्थितः पवनः सूर्यात्मा यावत्साकल्येनेडा संक्रामति तावदुत्तरायणमित्यर्थः । इत्थं दक्षिणायनमपि द्रष्टव्यम् । तदुक्तं प्रपञ्चसारे "वामदक्षिणनाडीभ्यां स्यादुदग्दक्षिणायनम्” इति । कालोत्तरे च _ 'उत्तरं दक्षिणं प्रोक्तं वामदक्षिणसंज्ञितम्' इति ॥ ४२ ॥ ४३ ॥ दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः ॥ इडापिङ्गलयोः संधिं यदा प्राणः समागतः॥४४॥ १ घ. 'त्तरं ग' । इ. 'तरे गा For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy