________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः११] ___ सूतसंहिता।
गान्धारी हस्तिजिह्वा च इडायाः पूर्वपार्श्वयोः ॥ पूषा यशस्विनी चैव पिङ्गलापृष्ठपूर्वयोः ॥ १६ ॥ कुह्वाश्च हस्तिजिह्वाया मध्ये विश्वोदरी स्थिता ॥ यशस्विन्याः कुहोर्मध्ये वारुणी सुप्रतिष्ठिता ॥ १७ ॥ पूषायाश्च सरस्वत्या मध्ये प्रोक्ता पेयस्विनी ॥
गान्धारायाःसरस्वत्या मध्ये प्रोक्ता चशखिनी॥१८॥ उद्घाटनीयद्वारायाः मुषुम्नायाः संस्थानमभिधाय निरोद्धव्यद्वारयोरिडापिइलयोराह-सुषुम्नाया इति । सरस्वतीत्यादिनाडीस्थानसंनिवेशाभिधानस्य प्रयोजनं प्रमादात्तत्र प्रविष्टस्य पवनस्य प्रवेशमार्गेणैवापकृष्य सुषुम्नायोजनमिति । सरस्वतीति । सुषुम्नायाः पुरतः सरस्वती । तदुक्तम्
"सुषुम्नापूर्वभागस्था जिह्वान्तस्था सरस्वती । पृष्ठतश्च कुहूः” इति ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ अलम्बुषा स्थिता पायुपर्यन्तं कन्दमध्यतः ॥ पूर्वभागे सुषुम्नाया मेदान्तं संस्थिता कुहूः ॥ १९॥ अधश्चोर्ध्व स्थिता नाडी वारुणी सर्वगामिनी ॥ पिङ्गलासंज्ञिता नाडी याम्यनासान्तमिष्यते ॥२०॥ पूर्वभागे मुषुम्नाया इति । पृष्ठत उत्पन्नाऽपि सुषुम्नायाः पूर्वभागं समागत्य भेट्रान्तं गतेत्यर्थः॥ १९ ॥ २० ॥
इडा चोत्तरनासान्तं स्थिता वाचस्पते तथा ॥ यशस्विनी च याम्यस्य पादाङ्गुष्ठान्तमिष्यते ॥२१॥ पूषा याम्याक्षिपर्यन्तं पिङ्गलायास्तु पृष्ठतः ॥ पयस्विनी तथा याम्यकर्णान्तं प्रोच्यते बुधैः ॥२२॥ सरस्वती तथा चोर्ध्वमा जिह्वायाः स्थिता मुने ॥ हस्तिजिह्वा तथा सव्यपादाङ्गष्टान्तमिप्यते ॥ २३ ॥
-
-
-
. ग. घ. यशस्तिनी।
For Private And Personal Use Only