SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेशखिनी नाम या नाडी सव्यकर्णान्तमुच्यते ॥ गान्धारी सव्यनेत्रान्ता प्रोक्ता वेदान्तवेदिभिः॥२४॥ विश्वोदराभिधा नाडी तुण्डमध्ये व्यवस्थिता ॥ प्राणोऽपानस्तथा व्यानः समानोदान एव च ॥२५॥ याम्यस्य पादेति । याम्यस्य पादस्य योऽङ्गष्ठस्तत्पर्यन्तमित्यर्थः ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५॥ नागः कूर्मश्च केकरो देवदत्तो धनंजयः ॥ एते नाडीषु सर्वासु चरन्ति दश वायवः ॥ २६ ॥ तेषु प्राणादयः पञ्च मुख्याः पञ्च च सुव्रत ॥ प्राणसंज्ञस्तथाऽपानः पूज्यः प्राणस्तयोर्मुने ॥ २७ ॥ दश वायव इति । तत्राऽऽद्या नव देहस्थितिहेतवः । दशमो धनंजयस्तु लौकिकः । यदाहुः"धनंजयाख्यो देहेऽस्मिन्कुर्याद्रहुविधानरवान् । स तु लौकिकवायुत्वान्मृतं च न विमुञ्चति" इति ॥ २६ ॥ २७ ॥ आस्यनासिकयोमध्ये नाभिमध्ये तथा हृदि ॥ प्राणसंज्ञोऽनिलो नित्यं वर्तते मुनिसत्तम ॥२८॥ व्यापिनामपि प्राणानां स्थानविशेषेषु कार्यभेदकरतामभिप्रेत्याऽऽह-आस्य. नासिकयोरिति ॥ २८॥ अपानो वर्तते नित्यं गुदमेद्रोरसंधिषु॥ उदरे वृषणे कव्यां नाभौ जंघे च सुव्रत ॥२९॥ व्यानश्रोत्राक्षिमध्ये च कृकव्याङ्गष्ठयोरपि ॥ घ्राणस्थाने गले चैव वर्तते मुनिपुंगव ॥ ३०॥ उदानः सर्वसंधिस्थो विज्ञेयः पादहस्तयोः ॥ समानः सवदहषु व्याप्य तिष्ठत्यसशयः॥ ३१ ॥ ऊरुसंधिर्वङ्क्षणः ॥ २९ ॥ ३० ॥ ३१ ॥ १ घ. कृकलो। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy