________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे"देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः ।
नाडीभ्यामस्तमभ्येति प्राणतो द्विषडङ्गले" इति । तत्र मूलाधारादुत्थितस्य वायोः स्वसंमुखावस्थितमध्यवर्ति सुषुम्नाद्वारपरित्यागेन पार्श्वस्थितयोरिडापिङ्गलयोः संचारे कारणं सुषुम्नाद्वारस्य कुण्डल्या स्वफणाग्रेणापिधानमभिधातुं कुण्डल्याः स्थानं स्वरूपं व्यापारंच कमेणाऽऽहनाभिकन्दादिति ॥ १२ ॥
अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम ॥
यथावहायुचेष्टां च जलानादीनि नित्यशः ॥ १३ ॥ अष्टप्रकृतीति ।
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त" इत्युक्ता अष्टौ प्रकृतयः । तत्र मूलपकृत्यात्मिका कुण्डली तस्याः सुषुम्नावे. ष्टनानि महदादिसप्तप्रकृतिविकृत्यात्मकानीत्यष्टप्रकृतिरूपता । सा इष्टधा कुण्डलीकृता तिष्ठति । यदाहुः
"कुण्डली परितस्तस्मादष्टधा कुण्डलीकृता ।
अष्टप्रकृतिरूपा सा मुप्तसर्पसमाकृतिः" इति । एवं स्वरूपमुक्त्वा व्यापारमाह-यथावदिति ॥ १३ ॥
परितः कन्दपार्थेषु निरुध्यैव सदा स्थिता ॥
स्वमुखेन सदाऽऽवेष्टय ब्रह्मरन्ध्रमुखं मुने ॥ १४॥ मूलाधारादुत्थितस्य पवनस्य साक्षात्स्वसंमुखमुषुम्नाद्वारसंचारादियथावद्वायुचेष्टतामियं निरुद्धि । कोष्ठगतस्य यशितपीतादेर्मूलाधारस्थज्वलनव्यवधायकत्वेन त्वरया पाकमतिबन्धो जलानादीनां निरोधः । स्वमुखेनेति । मुखेन सुषुम्नामूलरन्धं पिधायाष्टधाकुण्डलीभावेन स्वग्रीवां परिवेष्टय शेषकायं वंशास्थिसंबन्धमुपरि नीत्वा पुच्छेन ब्रह्मरन्धं पिदधातीत्यर्थः । तदुक्तम्
"कन्दनाभेरधोरन्धे निधाय स्वफणां दृढम् । संनिरुध्य मरुन्मार्ग पुच्छेन स्वमुखं तथा ॥
ब्रह्मरन्धं च संवेष्टय पृष्ठास्मा सह मुस्थिता" इति ॥ १४ ॥ सुषुम्नाया इडा सव्ये दक्षिणे पिङ्गला स्मृता ॥ सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः स्थिते ॥ १५ ॥
१ ङ, प्रीवायां प।
For Private And Personal Use Only