SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः११] सूतसंहिता। १८७ कन्दस्थानमित्यादि । तदुक्तमन्यत्र"नवाङ्गलोर्ध्वतस्तस्मादस्ति कन्दोऽण्डसंनिभः । चतुरङ्गलविस्तार उत्सधेनापि तत्समः ॥ त्वगस्थिभूषितः कन्दस्तन्मध्यं नाभिरुच्यते" इति ॥ ५॥६॥ कन्दमध्ये स्थिता नाडी मषनेति प्रकीर्तिता॥ तिष्ठन्ति परितस्तस्या नाडयो मुनिसत्तम ॥७॥ दिसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥ सुषुम्ना पिङ्गला तहदिडा चैव सरस्वती ॥८॥ पूषा च वारुणी चैव हस्तिजिह्वा यशस्विनी॥ अलम्बुषा कुहूश्चैव विश्वोदारा पयस्विनी ॥९॥ शखिनी चैव गान्धारी इति मुख्याश्चतुर्दश ।। तासां मुख्यतमास्तिस्रस्तिसृष्वेका वरा मुने ॥१०॥ पवनस्य सुषुम्नाप्रवेशलक्षणं योगमये विवक्षुः सुषुम्राया नाड्यन्तरेभ्यः प्राधान्यमाह-कन्दमध्य इति ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ ब्रह्मनाडीति सा प्रोक्ता मुने वेदान्तवेदिभिः ॥ पृष्ठमध्ये स्थितेनास्थ्ना वीणादण्डेन सुव्रत ॥११॥ ब्रह्मनाडीति । ब्रह्मलोकप्राप्तिद्वारत्वात् । तथाचाऽऽथर्वणोपनिषदि-"शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःमतैका । तयोर्ध्वमायनमृतत्वमेति विष्व॑ङन्या उत्क्रमणे भवन्ति" इति । अमृतत्वं छात्र ब्रह्मलोकमाप्तिर्मता । "आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते" । इत्याहुः । उक्तानां नाडीनां संस्थानमभिदि (धि)त्सुः प्रथमं सुषुभ्रामाहपृष्ठमध्य इति ॥ ११॥ सहमस्तकपर्यन्तं सुषुम्ना सुप्रतिष्ठिता ॥ नाभिकन्दादधःस्थानं कुण्डल्या यङ्गलं मुने ॥१२॥ पवनो हि मूलाधारादुत्थित इडापिङ्गलाभ्यां बहिरस्तमेति । तदुक्तम्१५. श्वोदरा । १ इ. नान्यवी । ३ ध, 'था छान्दोग्योप । ४ घ, ध्वगन्धा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy