SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ [२ज्ञानयोगखण्डे तात्पर्यदीपिकासमेता(अथैकादशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि नाडीचक्रमनुत्तमम् ॥ श्रद्धया गुरुभक्त्या च विद्धि वाचस्पतेऽधुना ॥१॥ यतः शरीरसंस्थानज्ञानांधीनं नाडीज्ञानं तदधीनं च तच्छोधनविज्ञानमतः शरीरोत्पत्तिकथनानन्तरं नाडीचक्राभिधानं प्रतिजानीते.-अथात इति ॥ १ ॥ शरीरं तावदेव स्यात्षण्णवत्यङ्गलात्मकम् ॥ मनुष्याणां मुनिश्रेष्ठ स्वाङ्गलीभिरिति श्रुतिः ॥२॥ पणवत्यङ्गलेति । अत्राङ्गुलीशब्देन शरीरायामस्य षण्णवतितमांशोऽभिधीयते ॥ २॥ देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ त्रिकोणं मनुजानां तु सत्यमुक्तं बृहस्पते ॥३॥ गुदात्तु बङ्गलादूर्ध्व मेदात्तु व्यङ्गलादधः ॥ देहमध्यं विजानीहि मनुष्याणां बृहस्पते ॥४॥ तादृशानामंशानामप्यष्टचत्वारिंशत्तममधस्तादुपरिष्टाच्च परित्यज्य मध्ये मूलाधारस्तमाह-~-देहमध्य इति । शिखिस्थानमग्निस्थानम् । तदाहुरागमिकाः "पण्णवत्यातलोत्सेधो देहः स्वाङ्गलिमानतः ॥ पांयन्ताङ्गलादूर्व लिङ्गाच्च बङ्गलादधः ॥ मध्यमेकालं यच्च देहमध्यं प्रचक्षते' इति ॥ ३ ॥ ४ ॥ कन्दस्थानं मुनिश्रेष्ठ मूलाधारानवाङ्गलम् ॥ चतुरङ्गलमायामविस्तारं मुनिसत्तम ॥ ५॥ कुकटाण्डवदाकारं भूषितं च त्वगादिभिः ॥ तन्मध्यं नाभिरित्युक्तं सुने वेदान्तवेदिभिः ॥६॥ १ 5. नानन्दीना' । २ य. 'ज्य म्। ३ घ. पायुं तव्य' । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy