________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भन्यायः१०] सूतसंहिता।
१८५ देवदेवाय देवाय नमो विश्वेश्वराय च ॥ ऋतं सत्यं परं ब्रह्म पुरुष कृष्णपिङ्गलम् ॥४८॥ ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्यहम् ॥ विश्वं विश्वाधिकं रुद्रं विश्वमूर्ति वृषध्वजम् ॥४९॥ नमामि सत्यविज्ञानं हृदयाकाशमध्यगम् ॥ चन्द्रः सूर्यस्तथेन्द्रश्च वह्निश्च यमसंज्ञितः ॥ ५० ॥ निर्ऋतिर्वरुणो वायुर्धनदो रुद्रसंज्ञितः॥ स्थूला मूर्तिमहेशस्य तया व्याप्तमिदं जगत् ॥५१॥ यस्य प्रसादलेशेन देवा देवत्वमागताः ॥ तं नमामि महेशानं सर्वज्ञमपराजितम् ॥५२॥ नमो दिग्वाससे तुभ्यमम्बिकापतये नमः ॥ उमायाः पतये तुभ्यमीशानाय नमो नमः ॥ ५३॥ ॥ ४५ ॥ ४६॥ ४७ ॥ ४८ ॥ ४२ ॥ ५० ॥ ५१ ॥ ५२ ॥ ५३ ॥
नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः॥ ॐकारान्ताय सूक्ष्माय मायातीताय ते नमः॥५४॥
नमो नमः कारणकारणाय ते नमो नमो मङ्गलमङ्गलात्मने ॥ नमो नमो वेदविदां मनीषिणा
मुपासनीयाय नमो नमो नमः ॥ ५५ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे पिण्डो
त्पत्तिकथनं नाम दशमोऽध्यायः ॥ १०॥ ॐकारान्तायेति । ॐकारस्य ह्यन्तो नादस्तत्यतिपाद्यतया निष्कलः शिवोऽपि तथोच्यते ॥ ५४॥ ५५॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पिण्डोत्पत्ति
कथनं नाम दशमोऽध्यायः॥ १०॥ ग. घ. ङ, स्थूलम'। २ छ, 'भ्यमीशानाय नमो न।
For Private And Personal Use Only