________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डे__ अविदुषः संसारप्राप्स्याऽऽत्मघातकतामुक्त्वा विदुषस्तद्विरहतामाह-आत्मानं चेदिति ॥ ३९ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः॥
क्षीयन्ते चास्य कर्माणि दृष्टे ह्यात्मनि सुव्रत ॥४०॥ ज्ञानिनस्तापहेतुशरीरेन्द्रियादिसंबन्धविरहे कारणमाह-भिद्यत इति ॥४०॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ज्ञात्वाऽऽत्मानं परानन्दं न बिभेति कुतश्चन ॥४१॥ तस्मात्सर्वप्रयत्नेन श्रद्धया गुरुभक्तितः॥ उत्सृज्य प्राकृतं भावं शिवोऽहमिति भावयेत् ॥४२॥ एतद्धि जन्मसाफल्यं ब्राह्मणानां विशेषतः॥
प्राप्यैतत्कृतकृत्यो हि दिजो भवति नान्यथा ॥४३॥ कुतश्चनेति । विहि ताकरणादविहितकरणाद्वेत्यर्थः । श्रूयते हि-"एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्" इति॥४१॥४२॥४३॥
सर्ववेदान्तसर्वस्वं मया प्रोक्तं बृहस्पते ॥
श्रद्वयैव विजानीहि श्रद्धा सर्वत्र कारणम् ॥४४॥ श्रद्धयैवेति । श्रद्धा हि समाधिलाभद्वारा पुरुषार्थसाधनमुक्ता पातञ्जले 'श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्' इति ॥ ४४ ॥ सूत उवाच
इति श्रुखा मुनिश्रेष्ठा गिरां नाथः समाहितः॥ स्तोतुमारभते भक्त्या देवदेवं त्रियम्बकम् ॥ ४५ ॥ बृहस्पतिरुवाच
नमः शिवाय सोमाय सपुत्राय त्रिशूलिने ॥ प्रधानपुरुषेशाय सृष्टिस्थित्यन्तहेतवे ॥ ४६॥ सर्वज्ञाय वरेण्याय शंकरायाऽऽतिहारिणे ॥ नमो वेदान्तवेद्याय चिन्मात्राय महात्मने ॥४७॥
1 ङ. हत्वमा । २ घ. 'मुक्तं पा।
For Private And Personal Use Only