SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३ अध्यायः१०] सूतसंहिता। यद्यात्मा मलिनः कर्ता भोक्ता च स्यात्स्वभावतः॥ नास्ति तस्य विनिर्मोक्षः संसाराजन्मकोटिभिः॥३३॥ यद्यात्मा मलिन इति । मलिनसत्त्वप्रधानमायोपाधिकत्वमात्मनो मालिन्यं तनिबन्धनश्च भोग इति प्रागुक्तं तद्यदि स्वाभाविकं स्यात्तदा न मुक्तिरित्यर्थः ॥ ३३ ॥ आत्माऽयं केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः।। अस्ति सर्वान्तरः साक्षी चिन्मात्रसुखविग्रहः ॥३४॥ कथं तर्हि विनिर्मोक्षस्तत्राऽऽह-आत्माऽयं केवल इति । अनेन शोधितस्त्वंपदार्थो दर्शितः ॥ ३४ ॥ अयं स भगवानीशः स्वयज्योतिः सनातनः ॥ अस्मादि जायते विश्वमत्रैव प्रविलीयते ॥ ३५ ॥ तस्य तत्पदार्थतादात्म्यरूपं महावाक्यार्थमाह-अयं स भगवानिति ॥३५॥ अयं ब्रह्मा शिवो विष्णुरयमिन्द्रः प्रजापतिः ॥ अयं वायुरयं चाग्निरयं सर्वाश्च देवताः॥ ३६॥ य एवंभूतमात्मानमन्यथा प्रतिपद्यते ॥ किं तेनं न कृतं पापं चौरेणाऽऽत्मापहारिणा ॥३७॥ अयं ब्रह्मेति । श्रूयते हि ‘स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट्' इति ॥ ३६ ॥ ३७॥ ब्राह्मण्यं प्राप्य लोकेऽस्मिन्नमूकोऽबधिरो भवेत् ॥ नापकामति संसारात्स खलु ब्रह्महा भवेत् ॥ ३८॥ ब्राह्मण्यं प्राप्येति । अमूकः शास्त्राण्यध्येतुं शक्तः । अबधिरः श्रोतुं क्षमः । इत्थं ज्ञानसामग्रीसद्भावेऽपि, आलस्यादिना सच्चिदानन्दैकरसमात्मानमजानानः पुनः पुनः संसारे पातयति यः स ब्रह्मघातक इत्यर्थः ॥ ३८ ॥ आत्मानं चेदिजानीयादयमस्मीति पूरुषः॥ किमिच्छन्कस्य कामाय शरीरमनु संज्वरेत् ॥ ३९ ॥ ११ स्वस्थः । २ ख. ङ. 'स्माद्विजा । ३ ख. ग. 'वाक्यमा' । ४ ग. 'न निष्कृतं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy