SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ तात्पर्यदीपिकासमेता- २ज्ञानयोगखण्डेकृतदारः पुनर्यज्ञान्करोम्यात्मविशुद्धये ॥ यज्ञैर्दग्धमलो भूत्वा ज्ञात्वा संसारहेयताम् ॥२६॥ वैराग्यातिशयेनैव मोक्षकामनया पुनः ॥ निरस्य सर्वकर्माणि शान्तो भूत्वा जितेन्द्रियः॥२७॥ विरजानलजं अस्म गृहीत्वा चाग्निहोत्रजम् ॥ अग्निरियादिभिर्मन्त्रैः षभिराथर्वणैः क्रमाव ॥२८॥ विमृज्याङ्गानि मूर्धादिचरणान्तानि सादरम् ॥ समुद्भूल्य सदाऽऽचार्य प्रणिपयाऽऽत्मविद्यया ॥२९॥ गर्भोपनिषदर्थं संग्रह्णाति-नानायोनीत्यादि । इत्थं हि श्रूयते "नानायोनिसहस्राणि दृष्टाश्चैव ततो मया । आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । अहो दुःखोदधौ मनो न पश्यामि प्रतिक्रियाम् । पदि योन्या प्रमुञ्चामि सांख्यं योगं समाश्रये । अशुभक्षयकर्तारं फलमुक्तिपदायिनम् । यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम्" इत्यादि ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥ २९ ॥ संसारसागरं घोरं लङ्घयाम्यहमात्मनः॥ इत्थं गर्भगतः स्मृत्वा योनियन्त्रप्रपीडनात् ॥ ३० ॥ जायते वायुना याति विस्मृतिं वैष्णवेन च ॥ अज्ञाने सति रागाद्या धर्माधमौ च तदशात् ॥३१॥ धर्माधर्मवशात्पुंसां शरीरमुपजायते ॥ ज्ञानेनैव निवृत्तिः स्यादज्ञानस्य न कर्मणा ॥३२॥ इत्थं गर्भगत इति । तदाह सैवोपनिषत्– 'योनिद्वारेण संप्राप्ते यत्रेणाऽऽ. पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृशति तदा न स्मरति' इति ॥ ३० ॥ ३१ ॥ ३२॥ १ घ. दृष्ट्वा चैव । २ घ. तस्तु । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy