SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १०] सूतसंहिता । आर्तवात्मसमं बीजमादायास्याश्च मूलतः ॥ यदा गर्भाशयं नेष्यत्यथ संमिश्रयेन्मरुत्" इति ॥ १७ ॥ १८ ॥ १९॥ अङ्गप्रत्यङ्गसंपूर्ण भवेत्तु क्रमशो मुने ॥ एकाहात्सप्तरात्रेण तथा पञ्चदशेन च ॥ २० ॥ एकद्वित्रिक्रमेणैव मासानां तद्विवर्धते ॥ इत्थं परिणतो गर्भः पूर्वकर्मवशान्मुने ॥ २१ ॥ उक्तकललादिपरिणामस्य कालपरिमाणमाह – एकाहात्सप्तरात्रेणेत्यादि । तदुक्तं गर्भोपनिषदि - " एकरात्रोषितं कललं भवति, सप्तरात्रोषितं बुदुदं भवति, अर्धमासाभ्यन्तरेण पिण्डो भवति, मासाभ्यन्तरेण कठिनो भवति, मासद्वयेन शिरः कुरुते, मासत्रयेण पादप्रदेशो भवति । अथ चतुर्थे मासेऽङ्गुलिजठर कटिप्रदेशो भवति, पञ्चमे मासे पृष्ठवंशो भवति, षण्मासे नासांक्षि श्रोत्राणि भवन्ति, सप्तमे मासे जीवेन संयुक्तो भवति, अष्टमे मासे सर्वसंपूर्णो भवति ॥ २० ॥ २१ ॥ महद्दुःखमवाप्रोति रौवे नरके यथा ॥ तां पीडां च विजानाति तदा जातिस्मरो भवेत् ॥२२॥ जातिस्मर इति । कारणकर्मपरिज्ञानेन दुःखाभिवृद्धये तान्येव कर्माणि पूर्वजन्मान्तराण्यपि स्मारयन्तीत्यर्थः । श्रूयते हि तत्रैव - " नवमे मासि सर्वलक्षणसंपूर्णो भवति, पूर्वजातीः स्मरति, कृताकृतं च कर्म भवति, शुभाशुभं च कर्म विन्दति" इति ॥ २२ ॥ Acharya Shri Kailassagarsuri Gyanmandir १८१ नानायोनिसहस्राणि पुरा प्राप्तानि वै मया ॥ आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ २३ ॥ अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ यदि योन्याः प्रमुञ्चामि तं प्रपद्ये महेश्वरम् ॥ २४ ॥ अध्येष्यामि सदा वेदान्साङ्गाशुश्रूषया गुरोः ॥ नित्यं नैमित्तिकं कर्म श्रद्धयैव करोम्यहम् ॥ २५ ॥ For Private And Personal Use Only १ क. ख. ग. घ. 'वेत्तत्क्रम ं। २ क. ख. 'गुल्यजठर कठिन । घ. 'गुल्य जठरकटिम' । ३. साक्षिणी श्री । ४ ग. ङ. तथा ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy