________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८०
तात्पर्य दीपिका समेता
'त्वगसृङ्मांसमेदोस्थि मज्जा शुक्राणि धातवः' ।
इति त्वगादयः शुक्रान्ताः सप्त धातवः कथ्यन्ते । तत्राऽऽद्याः षट्कोशत्वेनोच्यन्ते | मज्जास्थिस्नायवः शुक्राद्रक्तात्त्वमांसशोणितनीति षट्टौशिकं नाम देहो भवति । इह त्वन्नरसादेव पच्यमानात्किट्टसारात्मना त्वग्रसयोरुत्पत्तिरिति किट्टभूतां त्वचमनादृत्य रस एवं रक्तं भवतीति तदारभ्य मेदसरमावस्था स्नायुपदेन पृथग्धात्वात्मना कोशात्मना च स्वीकृत्य कोशगतपट्संख्या धातुगत सप्तसंख्या चेति द्रष्टव्यम् ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
[२ज्ञानयोगखण्डे
ततो मज्जोद्भवस्तस्माद्बलं पश्चात्समुद्गतम् ॥ बलाच्छोणितसंयुक्तात्प्रजा कालविपाकः || १६ || बलमिति । शुक्रम् | बलाच्छोणित संयुक्तादिति । मातृबीज सहितात्पितृबी - जात् । कालविपाकत इति । स कललादिपरिणामक्रमेण ॥ १६ ॥
ऋतुकाले यदा शुक्रं निर्दोषं योनिसंगतम् ॥ कदाचिन्मारुतेनैव स्त्रीरक्तेनैकतामियात् ॥ १७ ॥ शुक्रशोणितसंयुक्तं कललं बुद्बुदं तथा ॥ पिण्डं भवेदृढं तद्वच्छिरः पश्चात्पदद्वयम् ॥ १८ ॥ तथाऽङ्गुल्यः कटी कुक्षिस्तद्दत्पृष्टास्थिसंधयः ॥
चक्षुषी नासिका श्रोत्रे पश्चाजीवप्रकाशनम् ॥ १९ ॥ तदाह - ऋतुकाल इत्यादिना । निर्दोषमिति । धातुषु नित्यं स्थितानामपि वातपित्तश्लेष्मणां प्रतिकूलत्वे सत्येव दोषत्वम् | अनुकूलत्वे तु गुणत्वमेव । यदुक्तम्
'कालेन जन्तुर्भवति दोषास्त्वनुगुणा यदि ' इति । मारुतेनेति । तदुक्तमागमे —
For Private And Personal Use Only
"स्वस्थानतयुताच्छुक्राद्विन्दुमादाय मारुतः । गर्भाशयं प्रापयति यदा तुल्यं तदा परः ॥
* क. ख. ग. पुस्तकेषु शुक्रशब्दस्थाने सर्वत्र शुक्लमिति वर्तते ।
१ घ. ंद्रक्तत्वङ् ं । २ ङ. 'तात् । षं । ३ ग. घ. श्च रसावस्था । ४ क ख. ड भवेत् !