________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः१०] सूतसंहिता।
१७९ वर्धकः । एवमेबाचंशा अपि चत्वारश्चतुर्णा ज्ञानकर्मेन्द्रिययुग्मानामित्यर्थः ॥ १० ॥११॥
आकाशो वर्धकः पादश्रोत्रयोर्मुनिसत्तम ॥
सर्वाशी वर्धकश्चान्तःकरणप्राणसंज्ञयोः ॥ १२ ॥ सर्वांशो वर्धक इति । पृथिव्याद्यशपञ्चकं सात्त्विकं मनः प्राणवाय्वोरुपष्टम्भकम् । विशेषेण तु पृथिव्यबशौ मनःप्राणयोः पाञ्चभौतिकयोरप्पन्नमाणयोर्विशेषेणोपचयहेतुत्वादेव "अन्नमयं हि सौम्य मनः । आपोमयः प्राणः" इति श्रुतिः, इति गतखण्डे कथितम् । ननु ज्ञानेन्द्रियपञ्चकं मनश्च प्रत्येवशक्तिद्वारा सत्त्वस्य हेतुत्वम् । कर्मेन्द्रियपञ्चकं पाणं च प्रति तु शक्तिद्वारा रजस इति प्रागुक्तम् । सत्त्वस्य कारणता कथमुच्यत इति । सत्यम् | मूक्ष्मभूतगतयोः सत्त्वरजसोमनःप्राणौ ज्ञानकर्मेन्द्रियाणि च प्रति विभागेनोपादानत्वं तत्रोक्तम् । इह तु स्थूलभूतसारतरांशगतस्य सत्त्वस्याविभागेनोपष्टम्भकत्वमुच्यत इति को विरोधः ॥ १२॥
विशेषेण महीभागो वर्षको मनसो भवेत् ॥
तोयं प्राणस्य वह्नयंशो वदनस्य विशेषतः ॥ १३ ॥ ननु तेजोवाय्वाकाशानां मनःप्राणावपि प्रति कारणत्वे तेजोमयी वागित्यादि वागादिमात्रकारणत्वव्यवहारः कथमित्याशय तदपि विशेषाभिप्रायमित्याह-वह्नयंशो वदनस्येत्यादि ॥ १३ ॥
वाय्वंशः पाणिमूलस्य पादमूलस्य चाम्बरम् ॥
तथा रजोगुणग्रस्तो रसांशः कालकर्मतः ॥ १४॥ सात्त्विकरसभागस्येन्द्रियमनःप्राणोपष्टम्भकतामभिधाय राजर्सरसभागस्य रक्तादिक्रमेण धातूत्पादकतामाह-तथा रजोगुणग्रस्त इति ॥ १४ ॥
भवेद्रक्तं महाप्राज्ञ रक्त मांसं भवेत्पुनः ॥
मांसान्मेदस्ततः स्नायुस्तस्मादस्थि समुद्गतम् ॥१५॥ इन्द्रियाणां सर्गादावेवोत्पन्नत्वात्तानि प्रत्युपष्टम्भकत्वमात्रमत्रोक्तम् । धातूनां तु प्रतिशरीरमिदानीमेवोत्पत्तेस्तान्प्रत्युत्पादकत्वमिति विभागः।
* रक्तान्मांसमित्यपेक्षितम् । १ क 'मबाह्यंशा । ख. इ. मब्वाय्वंशा । २ घ. णं प्र । ३ घ. 'त्यादिमा । ४ घ, 'सस्य भा' । ङ. सस्य रस।
For Private And Personal Use Only