________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेयः स्थविष्ठो धातुस्तत्पुरीषं भवति, यो मध्यमस्तन्मांसं, योऽणिष्ठस्तन्मनः । आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति, यो मध्यमस्तल्लोहितं, योऽणिष्ठः स प्राणः । तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तदस्थि भवति, यो मध्यमः स मज्जा, योऽणिष्ठः स वागिति' । अत्र च भुक्तानां स्थूलादीनामन्नादीनां मनआदिकं प्रत्युपचयमात्रहेतुत्वम् । उपादानत्वं तु सूक्ष्मभूतानामेवेति गतखण्ड एकादशाध्याये 'हिरण्यगर्भ वक्ष्यामि' इत्यत्रोक्तम् ॥ ४ ॥५॥
पुरीषमूत्रे विसृजेदनिलः क्रमशो मुने ॥
सारयोः स्थूलभागस्य पञ्चभूतांशकैः क्रमात् ॥६॥ क्रमादिति । समनन्तरवक्ष्यमाणावकाशदानादिक्रमेणेत्यर्थः ॥ ६ ॥
वर्धन्ते धातवः सर्वे तेषां मध्ये महामुने ॥ आकाशाद्वातवः सर्वे वर्धन्ते वायुना बलम् ॥ ७॥ अग्निना वर्धते मज्जा लोहितं वर्धते जलाव ॥
भुवा मांसस्य वृद्धिः स्यादित्थं धातुविवर्धनम् ॥८॥ तमेव क्रममाह-आकाशाद्धातव इति । अवकाशदानद्वाराऽऽकाशस्य वृद्धिहेतुता । व्यूहनद्वारा वायोः। पाकद्वाराऽग्नेः । क्लेदनद्वारा जलस्य । घनीभावद्वारा भुव इति द्रष्टव्यम् ॥ ७ ॥ ८॥
अवशिष्टो रसांशश्च विधा सत्त्वगुणेन च ॥
राजसेन गुणेनापि भवेत्सत्त्वं तपोधन ॥ ९॥ अवशिष्टः सारयोः सूक्ष्मः । द्विधेति । सत्त्वरजोभेदेन ॥ ९॥
तयोः सत्त्वप्रधानस्य भूमिभागान्महामुने ॥ घाणेन्द्रियस्यापानस्य वर्धकश्च सदा भवेत् ॥ १०॥ उपस्थस्यापि विप्रेन्द्रा जिह्वायाश्च जलांशकः ॥
अग्निविचक्षुषोश्चर्महस्तयोरनिलस्तथा ॥ ११॥ तत्र सात्त्विकस्य सारस्य पञ्चभूतात्मकस्य यः पृथिव्यंशः स प्राणापानयो
१ घ यो निकृष्टस्त। २ ग. नभूतत्वं : ३ घ. 'त्यत्रैवोक्त'। ४ घ. ‘णाका ! ५ ख. ग. 'सत्यत ।
For Private And Personal Use Only