SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१०] सूतसंहिता। ( अथ दशमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि देहोत्पत्तिं महामुने ॥ शृणु वैराग्यसिद्धयर्थमात्मशुद्धयर्थमेव च ॥ १॥ एवमुत्तमाधिकारिणां वेदान्तवाक्य श्रवणमधमाधिकारिणां च कर्माणि ज्ञानसाधनमभिधाय कर्मभिः प्रक्षीणप्रतिबन्धकदुरितानामपि रजसा विक्षिप्तचेतसां सहसा मनस ऐकाग्र्यासंभवात्तदर्थं नाडीशुद्धिपुरःसरमष्टाङ्गयोगं वक्तुं प्रथम पिण्डोत्पत्तिमाह-अथात इति । यत उक्तपापकर्मफलज्ञानवदेहोत्पत्तिज्ञानमपि वैराग्योपयोगि, अतस्तदनन्तरमित्यर्थः । देहोत्पत्तिकमकथने हि गर्भक्लेशवर्णनाद्वैराग्यं जायते । अत एव च योगसाधनप्रवृत्तिद्वारा ब्रह्मज्ञानमपि सिध्यतीत्यर्थः ॥ १॥ पुण्यैर्देवत्वमानोति पापैः स्थावरतामियात् ॥ समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयानरः ॥२॥ पुण्यैर्देवत्वमिति । 'पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुप्यलोकम्' इति श्रुतेः ॥ २॥ तत्राऽऽहुया रविर्नित्यं वर्धते मुनिसत्तम । सूर्यादृष्टिर्विजायेत वृष्टरोषधयः क्रमात् ॥३॥ तत्राऽऽहुत्येति । यदाहुः 'अनौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।। आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः' इति ॥ ३ ॥ ओषधीभ्योऽत्रमन्नं च नियं भुङ्क्ते च मानवः ॥ पञ्चभूतात्मकं भुक्तं किट्टसारात्मना द्विधा ॥ ४॥ पुनर्दिधा भवेत्सारः स्थूलसूक्ष्मविभेदतः॥ किमत्रपुरीषास्थिमेदस्नाय्यात्मना भवेत् ॥५॥ पञ्चभूतात्मकं भुक्तमिति । श्रूयते हि-'अन्नमशितं त्रेधा विधीयते । तस्प १५ मननाधि। २ . भुक्ते कीटक्सारा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy