________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेकेचिदन्येषु पापिष्ठाः पच्यन्ते विवशा भृशम् ॥
अहो कष्टं महाप्राज्ञ पापकर्मफलोदयम् ॥ ३५॥ पापकर्मणां फलमुर्देति यस्मिन्नरकजाते तत्पापकर्मफलोदयम् ॥ ३५ ॥
एवं पापफलं ज्ञात्वा मुने ज्ञानरतो भव ॥ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते मुने ॥ ३६ ॥ अहो ज्ञानं परित्यज्य मायया परिमोहिताः ॥
नरकेषु हि पच्यन्ते स्वप्रकल्पेषु दुःखिताः ॥ ३७॥ इहजन्मनि जन्मान्तरेषु च कृतस्य पापराशेरेपशमोपायस्य दुर्ज्ञानत्वात्मा. तिस्विकमायश्चित्सकरणासंभवात्सकलपापनिहरणस्य सुकरमेकमुपायमाह-एवं पापेति ॥
"परोक्षमात्मविज्ञानं शाब्दं देशिकपूर्वकम् ।। बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् ॥
संसारकारणाज्ञानतमसश्चण्डभास्करः" ।। इति वक्ष्यति ॥ ३६ ॥ ३७॥
एवं पापफलं भुक्त्वा महादेवप्रसादतः ॥ पश्चाद्भूमौ विजायन्ते मानुष्ये कर्मसाम्यतः ॥ ३८॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे
पापकर्मफलनिरूपणं नाम नवमोऽध्यायः ॥९॥ मानुष्ये मनुष्यलोके । कर्मसाम्यतः पुण्यपापकर्मणोरुभयोरपि युगपत्परिपाके ।
'समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयानरः' इत्पग्रे वक्ष्यति ॥ ३८॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पाप
कर्मफलनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥
१. रूपा । २ ङ. 'निवईण'।
For Private And Personal Use Only