________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः९]
सूतसंहिता। उपद्रवन्ति पापिष्ठा नृपास्तत्र रमन्ति च॥ व्यायामोदर्तनाभ्यङ्गस्नानपानानभोजनम् ॥ २५॥ ॥१६॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥
क्रीडनं मैथुनं द्यूतमाचरन्ति मदोद्वताः ॥ ते च तद्विविधैर्यौरैरिक्षुयन्त्रादिपीडनैः ॥ २६ ॥ आचरन्ति प्रकृते देवालयादौ ॥ २६ ॥
निरयानिषु पच्यन्ते यावच्चन्द्रदिवाकरौ ॥ वेदमार्गरताचार्यनिन्दां शृण्वन्ति ये नराः ॥ २७ ॥
द्रुतताम्रादिभिस्तेषां कर्ण आपूर्यतेऽनघ ॥२८॥ निरया नरका एवामयस्तेषु ॥ २७ ॥ २८ ॥
घोराख्ये नरके केचित्पच्यन्ते पापकर्मतः ॥ सुघोराख्ये तथा केचिदतिघोरे च केचन ॥ महाघोराभिधे केचिद्घोररूपे च केचन ॥ २९ ॥ करालाख्ये तथा केचित्तथा केचिद्यानके ॥ कालरात्रौ महापापास्तथा केचिद्योत्कटे ॥३०॥ केचिच्चण्डाभिधे केचिन्महाचण्डाभिधे सदा ॥ चण्डकोलाहले केचित्प्रचण्डायां च केचन ॥३१॥ तथा पद्माभिधायां च पद्मावत्यां च केचन ॥ तथा केचन भीमायां केचिदीषणसंज्ञिते ॥ ३२॥ कराले तु तथा केचिदिकराले च केचन ॥ वज्रे त्रिकोणसंज्ञे च पद्मकोणे च केचन ॥ ३३॥ सुदी वर्तुलाख्ये च सप्तभौमे च केचन ॥
अष्टभौमे च दीप्ते च रौखे चैव केचन ॥३४॥ घोरसुघोरादयो नरकविशेषाः ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥ ३४॥
१ क. ग. तु।
For Private And Personal Use Only