________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- ज्ञानयोगखण्डेपापकर्मणः फलमुदेति यस्मिन्वतने तदित्यर्थः । अधिकरण एरच्। तद्वर्तनमेतावता नालमित्यन्वयः ॥ ११ ॥ १२ ॥ १३ ॥ १४ ॥
तप्तताम्रकटाहेषु क्षिप्य मिथ्याभिशंसिनम् ॥
जिह्वामुत्पाटयन्त्याशु बहुशो यमकिंकराः ॥ १५॥ मिथ्याभिशंसिनमिति । अविद्यमानं दोषमारोपयन्तम् ॥ १५ ॥
तप्तताम्रजलं तीक्ष्णैः पिबेत्युक्त्वाऽऽयसायुधैः ॥ छिद्यते यमदूतैस्तु सुरापानरतो नरः॥ १६॥ छित्त्वा छित्त्वा पुनर्दग्ध्वा पिण्डीकृत्य पुनस्तथा ॥ क्षिप्यते पूयपूर्णेऽस्मिन्कटाहे गुरुतल्पगः ॥ १७ ॥ मातरं पितरं ज्येष्ठं गुरुमध्यात्मवेदिनम् ॥ महादेवं तथा वेदं विष्णुं ब्रह्माणमेव च ॥ १८॥ आदित्यं चन्द्रमग्निं च वायुं निन्दन्ति ये नराः॥ कल्पकोटिशतं दिव्यं पच्यन्ते नरकालये ॥ १९॥ यतिहस्ते जलं चान्नं न दत्तं यैर्नराधमैः ॥ इक्षुवत्संप्रपीड्यन्ते मुद्गरैर्मुनिसत्तमाः ॥२०॥ पादे चाऽऽस्ये तथा पार्श्वे नाभौ शिश्ने गुदेऽक्षिणि ॥ निखन्यन्ते महातप्तैः शङ्कुभिश्वार्थहारिणः ॥२१॥ अयसा निर्मितां कान्तां सुतप्तां झझरीकृताम् ॥ गाढमालिङ्गयते मर्यः परदारपरिग्रहात् ॥ २२॥ दुश्चारिण्यः स्त्रियश्चापि सुतप्तं पुरुषं तथा ॥ श्रौतस्मातविहीना ये निषिद्धाचरणे रताः ॥२३॥ पच्यन्ते नरके तीव्र कल्पकोटिशतं सदा ॥ ये शिवायतनारामवापीकूपमठादिकम् ॥ २४ ॥
१ ख. ग. घ. तेते त । २ क. ख. 'ततैलक' । ३ क. ख. ग. 'तम |॥ २० ॥ पा :
For Private And Personal Use Only