________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः९] सूतसंहिता।
१७३ श्वाऽनं त्दृत्वा भवेत्पुष्पं मर्कटः स्यात्तथैव च ॥
यानापहरणादुष्टः पशुं हत्वा भवेद्गजः॥९॥ दर्दुरो भेकः ॥ ८ ॥९॥
शवभक्षणतो राजा वैश्यः पूयाशनो भवेत् ॥
श्येनाशनो भवेच्छूद्रो जलूको रक्तपो भवेत् ॥१०॥ शवभक्षणतो राजेति । योहि राजा न्यायेन प्रजाः परिपालयति स ब्राह्मणा. दनन्तरं प्रशस्यते । स्मर्यते हि
'श्रेयान्प्रतिग्रहो राज्ञो मान्येषां ब्राह्मणाहते' इति । यस्त्वन्यायकारी क्रूरो राजा स उच्यते शवभक्षणतो राजेति । स हि मूनिचक्रिध्वजिवेश्याभ्योऽपि निकृष्टः स्मर्यते
"प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥
दुष्टा दशगुणं प्रोक्ताः पूर्वादेते यथाक्रमम्" इति । तथा
"दशसूनिसमश्चक्री दशक्रिसमो ध्वजी।।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः" इति । एवं वैश्यशूद्रयोरपि निकृष्टयोरिहाभिधानम् । न्यायवर्ती तु शूद्रः साधुः नियः साधुरित्यादिदर्शनं विद्यते । वैश्योऽपि न्यायवर्ती तुलाधारस्तीर्थसेविनो जाजलिब्राह्मणादुत्कृष्टः स्मर्यते । तस्य हि जाजलिं प्रत्येतद्वाक्यम्
"जाजले तीर्थमात्मैव मास्म देशातिथिर्भव" इति ॥ १० ॥ नैतावताऽलं विप्रेन्द्र पापकर्मफलोदयम् ॥ नरके वर्तनं चास्ति महाघोरेऽतिदारुणे ॥११॥ हस्तदंदं दृढं बद्ध्वा ततः शृङ्खलया तथा ॥ क्षिप्यते दीप्तवह्नौ च ब्रह्महाऽऽचन्द्रतारकम् ॥ १२॥ अतितप्तायसैर्दण्डैः पीज्यते यमकिंकरैः ॥ प्राणिहिंसापरो गाढं कल्पकोटिशतं मुने ॥ १३॥ तप्ततैलकटाहेषु बढ्दा हस्तौ पदद्दयम् ।। क्षिप्यते यमदूतेन तैलंचौरो महामुने ॥१४॥ १५. श्वा वै हूं। २ क. 'पहार | ३ क. भवेद नः । ४ ख. ग. घ. 'लचारो ।
For Private And Personal Use Only