SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ [२ज्ञानयोगखण्डे तात्पर्यदीपिकासमेता- (अथ नवमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि पापकर्मफलं मुने ॥ खरोष्ट्रसूकराजाविगजाश्वमृगपक्षिणाम् ॥ १॥ चण्डालपुल्कसत्वं च प्राप्नोति ब्रह्महा क्रमात् ॥ दस्यूनां विड्भुजां योनि पक्षिणां च तथैव च ॥२॥ क्रिमिकीटपतङ्गानां सुरापः प्राप्नुयादिजः ॥ राक्षसानां पिशाचानां चोरो याति सहस्रशः ॥३॥ क्रव्याददंष्ट्रिणां योनि तृणादीनां तथैव च ॥ क्रूरकर्मरतानां च प्रामोति गुरुतल्पगः ॥४॥ ब्राह्मणस्य धनं क्षेत्रमपत्दृत्य नराधमः ॥ ब्रह्मराक्षसतां याति शतशोऽथ सहस्रशः॥५॥ स्वर्गापवर्गसाधने विहिते धर्मज्ञाने उपादानायाभिधाय हानाय निषिद्धं कर्माभिधातुं प्रतिजानीते-अथात इति । यतो हि विहितकारिणामपि निषिद्धापरित्यागे नरकः । अतो विहिताभिधानानन्तरं हानाय निषिद्धमुच्यत इत्यर्थः। बहुतरनरकोपभोगानन्तरं शेषेण खरोष्ट्रादिजन्मप्राप्तिः ॥१॥२॥ ३ ॥ ४ ॥ ॥५॥ धान्यचोरो भवेदाखुर्जलं दृत्वा प्लवो भवेत् ॥ कांस्यं हत्वा भवेदसः श्वा रसं नकुलो घृतम् ॥६॥ पयः काका भवन्मासं हत्वा गृध्रो भवेत्तथा। चक्रवाकस्तु लवणं बकस्तैलापहारतः ॥७॥ पूव इति । प्लवो मण्डूकः । पचायच् ॥ ६॥ ७ ॥ कौशेयं तित्तिरिः क्षोमं दृत्वा दर्दुरसंज्ञकः ॥ पत्रशाकापहारेण बर्हिणः स्युनराधमाः ॥ ८॥ १ चाण्डा' । २ घ. 'भिधाना' । ३ घ. तैत्तिरिः । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy