SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः८] सूतसंहिता। १७१ इति घः । शतं सहस्रमित्यपरिमितपर्यायाः 'सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम्' इति हि श्रूयते ॥ ३९ ॥ तस्मात्तजपमात्रेण सर्वपापात्प्रमुच्यते ॥ चमकं च जपेदिद्दान्सर्वपापप्रशान्तये ॥४०॥ चमकं चेति । वसोर्धाराम् 'अनाविष्णू सजोषसे' इत्यादिकाम् ॥ ४० ॥ सहस्रशीर्षासूक्तं च शिवसंकल्पमेव च ॥ जपेत्पञ्चाक्षरं चैव सतारं तारणक्षमम् ॥ ४१ ॥ त्रिसप्तकुलमुद्दृत्य शिवलोके महीयते ॥ तत्र नानाविधान्मोगान्मुक्त्वा कर्मपरिक्षयात् ॥४२॥ शिवसंकल्पम् । 'येनेदं भूतं भुवनं भविष्यत्' इत्यादिकम् ॥ ४१ ॥ ४२ ॥ भूलोके जायते पुण्यं पापं वा कुरुते पुनः ॥ यावज्ज्ञानोदयं तावजायते म्रियतेऽपि च ॥४३॥ यावज्ज्ञानोदयमिति । ज्ञानमुदेति यस्मिन्दिने तज्ज्ञानोदयं तद्यावदापाति तादित्यर्थः ॥ ४३ ॥ असुखे सुखमारोप्य विषयेऽज्ञानतो नरः ॥ करोति सकलं कर्म तत्फलं चावशोऽन्नते ॥४४॥ अहो मायावृतो लोकः स्वात्मानन्दमहोदधिम् ॥ विहाय विवशः क्षुद्रे रमते किं वदामि तम् ॥४५॥ तस्मान्मायामयं भोगमसारमखिलं नरः ॥ विहाय विमलं नित्यमात्मानन्दं समाश्रयेत् ॥ ४६॥ सर्वसंग्रहरूपेण सस्नेहं सम्यगीरितम् ॥ तस्मात्त्वं सकलं त्यक्त्वा स्वात्मानन्दे कुरु श्रमम्॥४७॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे दानधर्मफलकथनं नामाष्टमोऽध्यायः ॥८॥ अज्ञानत इत्यारोपे हेतुः ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगवण्डे दान धर्मफलकथनं नामाष्टमोऽध्यायः ॥ ८॥ १ क. ख. ग. घ. ह. 'दयस्ताव' । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy