________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेब्रह्मवर्चसकामस्तु ब्रह्माणं पूजयेन्नरः॥ आरोग्यकाम आदित्यं बलकामः समीरणम् ॥३३॥ कीर्तिकामोऽनलं तद्वन्मेधाकामः सरस्वतीम् ॥ ज्ञानकामो महादेवं सिद्धिकामो विनायकम् ॥ ३४ ॥ भोगकामस्तु शशिनं मोक्षकामस्तु शंकरम् ॥
वैराग्यकामो विद्यासं पुष्टिकामः शचीपतिम् ॥३५॥ तिथिभेदेन देवताभेदाः प्रागुक्ताः । कामनाभेदेने तानाह-ब्रह्मवर्चसकाम इत्यादिना ॥ ३३ ॥ ३४ ॥ ३५॥
व्रतान्याचरतः श्रद्धाभक्तिभ्यां संयतः शुचिः॥ शीयन्ते पापकर्माणि क्षीयन्तेऽस्येति हि श्रुतिः॥३६॥ ज्योतिष्टोमादिकं कर्म यः कुर्याविधिपूर्वकम् ॥ स देवत्वमवाप्नोति नात्र कार्या विचारणा ॥ ३७॥ यः श्रद्धया युतो नित्यं शतरुद्रियमभ्यसेत् ॥
अग्निदाहात्सुरापानादकृयाचरणात्तथा ॥३८॥ क्षीयन्तेऽस्येति हि श्रुतिरिति । कठवल्लीषु हि श्रूयते
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इति ॥ ३६ ॥ ३७ ॥ ३८ ॥ मुच्यते ब्रह्महत्याया इति कैवल्यशाखिनः ॥
शतशाखागतं साक्षाच्छतरुद्रियमुत्तमम् ॥ ३९॥ कैवल्यशाखिन इति । श्रूयते हि कैवल्योपनिषदि-"यः शतरुद्रियमधीते सोऽनिपूतो भवति, मुरापानात्पूतो भवति, ब्रह्महत्यायाः पूतो भवति, कृत्याकत्यात्पूतो भवति' इति । साक्षात्प्रत्यक्षभूता याः शतसंख्याका अध्वर्युशाखास्तासु सर्वासु गतमित्यर्थः । शतं रुद्रा देवता अस्येत्यर्थे 'शतरुद्राद्धश्च'
१ इ. 'न दैवता' । २ घ. 'ति वै ध्रु। ३ क. ख. यमदुतम् । ४ ख. ग. 'यात्पतो।
For Private And Personal Use Only