SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः८] सूतसंहिता। स सर्वसमतामिति । "मुहृन्मित्राणुदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ।। निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः" इति गीतासु ॥ २५ ॥ २६ ॥ २७ ॥ यं यं कामयते लोकं तं तमुद्दिश्य भक्तिमान् ॥ आत्मज्ञं धर्चयनित्यमात्मज्ञमिति हि श्रुतिः॥२८॥ आत्मज्ञमिति हि श्रुतिरिति । मुण्डकोपनिषदि"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जायते तांश्च कामांस्तस्मादात्मजं वर्चयेतिकामः' इति ॥२८॥ क्रिमिकीटपतङ्गेभ्यः श्रेष्ठाः पश्वादयस्तथा ॥ पश्वादिभ्यो नराः श्रेष्ठा नरेभ्यो ब्राह्मणास्तथा ॥२९॥ ब्राह्मणेभ्योऽथ विद्वांसो विद्वत्सु कृतबुद्धयः॥ कृतबुद्धिषु कर्तारस्तेभ्यः संन्यासिनो वराः ॥ ३० ॥ तेषां कुटीचकाः श्रेष्ठा बहूदकसमाश्रिताः ॥ बहूदकाहरो हंसो हंसात्परमहंसकः ॥ ३१ ॥ परहंसादपि श्रेयानात्मवित्रास्त्यतोऽधिकः ॥ तस्मादात्मविदः पूज्याः सर्वदा सर्वजन्तुभिः ॥३२॥ तस्मादात्मविदः पूज्या इति यदुक्तं तंत्र हेतुत्वेनाऽऽत्मविद्यायाः सर्वतः पाशस्त्यमाह-क्रिमिकीटेत्यादिना । मनुरप्याह "भूतानां पाणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणास्तथा ॥ ब्राह्मणेषु च विद्वांसो विद्वत्म कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवादिनः ॥ ब्रह्मविभ्यः परं किंचिन्न भूतं न भविष्यति" ॥ २९ ॥३०॥३१॥३२॥ १. कृतनिश्चयाः । २ क. स्व. ग. इ. तच । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy