SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६८ तात्पर्यदीपिकासमेता [२ज्ञान योगखण्डे चन्द्रलोकमवाप्रोति नात्र कार्या विचारणा || षष्ठयामादित्यमुद्दिश्य ब्राह्मणानेव भोजयेत् ॥ १८ ॥ सूर्यलोकमवाप्रोति सुखमक्षय्यमश्नुते ॥ पञ्चम्यां पार्वतीं विप्रानुद्दिश्यान्नेन भोजयेत् ॥ १९ ॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ चतुर्थ्या ब्राह्मणाञ्शुद्धा लक्ष्मीमुद्दिश्य भोजयेत् ॥२०॥ दारिद्र्यं सकलं त्यक्त्वा महालक्ष्मीमवाप्नुयात् ॥ तृतीयायां द्विजः स्नात्वा ब्राह्मणान्भोजयेत्सकृत् ॥२१॥ तस्य ब्रह्मा हरिश्वापि महादेवो वशो भवेत् ॥ द्वितीयायां विशुद्धायां ब्राह्मणान्भोजयेन्नरः ॥ २२ ॥ तस्य वाचि सदा वेदा नृत्यन्ति स्म महामुने ॥ सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ २३ ॥ प्रथमायां पवित्रायां परब्रह्मार्पणं द्विजः ॥ यो ब्राह्मणमुखे कुर्याच्छ्रद्धाभक्तिसमन्वितः ॥ २४ ॥ पक्षयोरपीति । यत्तु 'शुक्लामेव सदा गृही' इति तद्गृहस्थोऽपि शुद्धां शुद्धां कामानुपहतामिति हि व्याचक्षते । यदाहु: " सकामानां गृहस्थानां काम्यत्रतनिषेधनात् " इति || १३ || १४ || १५ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ || २२ || २३ || २४ ॥ स सर्वसमतामेत्य ब्रह्माप्येति सनातनम् ॥ ब्राह्मणाय मुदा दद्याच्छुकां गामुत्तमां नरः ॥ २५ ॥ सर्वपापविनिर्मुक्तः साक्षाद्वह्म स गच्छति ॥ यो दद्यात्कन्यां शुद्धां ब्राह्मणाय विभूषिताम् ॥ सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ २६ ॥ येन केन प्रकारेण यं यं देवं समर्चयेत् ॥ तं तं देवं समाप्रोति नात्र कार्या विचारणा ॥ २७ ॥ १ . णान्भोजयेद्विजः ॥ ३८ ॥ सू । २ङ, भिवा । ३ क. ख. "येद्विजः । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy