SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१] सूतसंहिता। सकलश्रुत्यर्थसंग्रहात्मकत्वादस्यां संहितायामवश्यमादरो विधेय इत्याह समस्तानामिति श्लोकैशेषेण ॥ ३२॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ३३ ॥ नानाविधोपाख्यानप्रतिपादनपर्यवसिते पुराणे कः प्रसङ्गो वेदार्थस्य तत्राऽऽ. ह-सर्गश्चेत्येकेन । ब्रह्मणस्तटस्थलक्षणत्वेन सृष्टिस्थितिप्रलया एव वेदे प्रधानं प्रमेयम् । “आत्मैवेदमग्र आसीत्" "स ऐक्षत" इति महासर्गः । “नेह नानाs स्ति" इति महाप्रलयः । अन्यत्सवं स्थित्यवस्थाविलासः । इत्थमेवं पुराणेऽपि वंशमन्वन्तरवंशानुचरितानि स्थित्यवस्थात एवेति ॥ ३३ ॥ यश्चतुर्वेदविविप्रः पुराणं वेत्ति नार्थतः । तं दृष्ट्वा अयमानोति वेदो मां प्रतरिष्यति ॥ ३४॥ वेदार्थ एव चेत्पुराणे स वेदेनैव सिद्धः किं पुराणेनेति तत्राऽऽह । यश्चतुर्वेदविद्विप इति । तत्र स्थितस्याप्यर्थस्य तावतैव दुरधिगमत्वात्तदुपबृंहणाय पुराणमित्यर्थः । अनुपबृंहणे बाधमाह-तं दृष्ट्वेति । विप्लवस्य दुष्परिहरत्वं दर्शयितुं वेदे भयारोपः । प्रतरिष्यति विप्लापयिष्यतीति बिभेति । अतस्तं समुपद्व्हयेदित्यन्वयः ॥ ३४॥ इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । वेदाः प्रमाणं प्रथम स्वत एव ततः परम् ॥ ३५॥ सर्वथा पुराणादिकमपेक्षितं चेत्तेनैव पर्याप्तम् । किं वेदैः । न । वेदानां स्वतः प्रामाण्यात्तन्मूलतयैव पुराणादेः स्वरूपलाभादित्याह--वेदाः प्रमाणं प्रथममिति ॥ ३५॥ स्मृतयश्च पुराणानि भारतं मुनिपुङ्गवाः । अन्यान्यपि मुनिश्रेष्ठाः शास्त्राणि सुबहूनि च ॥३६॥ अन्यान्यपि । आर्षस्मृतिपुराणमूलानि । तदर्थं संग्रहशास्त्राणीत्यर्थः ॥ ३६ ॥ सर्व वेदाविरोधेन प्रमाणं नान्यवर्मना । एक एव दिजा वेदो वेदार्थश्चैक एव तु ॥३७॥ वेदाविरोधेन । 'विरोधे वनपेक्षं स्यादसति हनुमानम्' इति हि जैमिनीयं ड. कविशेषेण । २ ख. ग. घ. 'वस्थ एवेति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy