________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्यखण्डे
मुक्तिभेदकथनम् । तृतीये मुक्त्युपायकथनम् । चतुर्थे मोचककथनम् । पञ्चमे मोचकमदकथनम् । षष्ठे ज्ञानोत्पत्तिकथनम् । सप्तमे गुरूपसदनश्शुश्रूषण महिमा । अष्टमे व्याघ्रपुरे देवानामुपदेशः । नवम ईश्वरनृत्यदर्शनम् ॥ ॥ चतुर्थखण्डे सप्तषष्टिरध्यायाः । तत्र पूर्वभागे सप्तचत्वारिंशत् । तत्र प्रथमेऽध्याये सर्ववेदार्थप्रश्नः । द्वितीये परापरवेदार्थविचारः । तृतीये कर्मयज्ञवैभवम् । चतुर्थे वाचिकयज्ञः । पञ्चमे प्रणवविचारः । षष्ठे गायत्रीप्रपञ्चः । सप्तम आत्ममनः । अष्टमे षडक्षरविचार: । नवमे ध्यानयज्ञः । दशमे ज्ञानयज्ञः । एकादशादिपञ्चस्वध्यायेषु ज्ञानयज्ञविशेषाः । षोडशे ज्ञानोत्पत्तिकारणम् । सप्तदशे वैराग्यविचारः । अष्टादशेऽनित्यवस्तुविचारः । एकोनविंशे नित्यवस्तुविचारः । विंशे विशिष्टधर्मविचारः । एकविंशे मुक्तिसाधनविचारः । द्वाविंशे मार्गप्रामाoयम् | त्रयोविंशे शंकरप्रसादः । चतुर्विंशपञ्चविंशयोः प्रसादवैभवम् । पाšशे शिवभक्तिविचारः । सप्तविंशे परपदस्वरूपविचारः । अष्टाविंशे शिवलिङ्गस्वरूपकथनम् । एकोनत्रिंशे शिवस्थानविचारः । त्रिंशे भस्मधारणवैभवम् । एकत्रिंशे शिवप्रीतिकरं जीवब्रह्मैक्यज्ञानम् । द्वात्रिंशे भक्त्यभावकारणम् | त्रयत्रिंशे परतत्वनामविचारः । चतुस्त्रिंशे महादेवप्रसादकारणम् । पञ्चत्रिंशे संपदाये परंपराविचारः । षट्त्रिंशे सद्योमुक्तिकरक्षेत्र महिमा । सप्तत्रिंशे मुक्त्युपायविचारः । अष्टात्रिंशे मुक्तिसाधनविचारः । एकोनचत्वारिंशे वेदानामविरोधः । चत्वारिंशे सर्वसिद्धिकरैधर्मविचारः । एकचत्वारिंशे पातकविचारः । द्विचत्वारिंशे प्रायश्चित्तविचारः । त्रिचत्वारिंशे पाप शुद्धयुपायाः । चतुश्चत्वारिंशे द्रव्यशुद्धिविचारः । पञ्चचत्वारिंशेऽभक्ष्यनिवृत्तिः । षट्चत्वारिंशे मृत्युसूचकम् । सप्तचत्वारिंशेऽवशिष्टपापस्वरूपकथनम् ॥ ॥ चतुर्थखण्डस्योत्तरभागे विंशतिरध्यायाः ॥ तत्र प्रथमे ब्रह्मगीतिः । द्वितीये वेदार्थविचारः । तृतीये साक्षिशिवस्वरूपकथनम् । चतुर्थे साक्ष्यस्तित्वकथनम् । पञ्चम आदेशकथनम् । षष्ठे दहरोपासनम् | सप्तमे वस्तुस्वरूपविचारः । अष्टमे तच्ववेदनविधिः । नवम आनन्दस्वरूपकथनम् । दशम आत्मनो ब्रह्मतत्त्वप्रतिपादनम् । एकादशे ब्रह्मणः सर्वशरीरस्थितिः । द्वादशे शिवस्याहंप्रत्ययाश्रयत्वम् । त्रयोदशे सूतगीतिः । चतुर्दश आत्मना सृष्टिः । पञ्चदशे सामान्यसृष्टिः । षोडशे विशेषसृष्टिः । सप्तदश आत्मस्वरूपकथनम् । अष्टादशे सर्वशास्त्रार्थसंग्रहः । एकोनविंशे रहस्यविचारः । विंशे सर्ववेदान्तसंग्रहः । इति सामान्येनाध्यायार्थाः कथिताः ।
Acharya Shri Kailassagarsuri Gyanmandir
१ घ. “यत्रि । २ ख. ग. रकर्मवि । ३ ग. घायः । च ४ घ द्रव्यशुयुपायः । ५० ख. गीता। द्वि । । ६ क. ख. ब्रह्मत्व प्र ७ ग. ड. 'गीता । च । ८६. 'शास्त्रसँ ।
For Private And Personal Use Only