SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१] सूतसंहिता। सामान्येनोपक्रम्य कियत्तादात जिज्ञासायां त्रिशदिति 'शक्यमालिभिः पातुं वाताः केतकिगन्धिनः' इतिवत् ॥ २८ ॥ २९ ॥ चतुर्थस्तु मुनिश्रेष्ठाः सहस्राणां चतुष्टयम् । उपर्यधोभागभेदाविधाभूतः स उच्यते ॥ ३० ॥ चतुर्थ इति । चतुर्थखण्ड उपरिभागोऽधोभाग इति भेदेन द्विप्रकारः॥३०॥ आद्यत्रयोदशाध्यायो द्वितीयो विंशतिस्तथा। तृतीयो नव विप्रेन्द्राश्चतुर्थस्तु तथैव च ॥ ३१ ॥ प्रकृतसंहितागतखण्डचतुष्टयस्याध्यायविभागमाह-आद्यत्रयोदशाध्याय इति । आद्यः खण्डोऽध्यायैस्त्रयोदश ग्रन्थतः सप्तशतमितिवत् । नतु प्रयोदशभिरध्यायैरिति 'दिक्संख्ये संज्ञायाम्' इत्युक्तत्वात् । इह च द्विगुसमासनिमित्तानां संज्ञादीनामभावात् । आद्यत्रयोदशाध्याय इति तु पाठः श्रेयान् । तत्र हि त्रयोदशेति पृथक्पदम् ॥ ३१ ॥ सप्तषष्टिः समस्तानां वेदानामर्थ आस्तिकाः ॥ अस्यामेव स्थितः साक्षात्संहितायां न संशयः॥३२॥ तत्र प्रथमे खण्डे प्रथमेऽध्याये ग्रन्थावतारः। द्वितीये पाशुपतव्रतम् । तृतीये नन्दीश्वरविष्णुसंवादेनेश्वरप्रतिपादनम् । चतुर्थ ईश्वर पूजाविधानं देवपूजाफलं च । पञ्चमे शक्तिपूजाविधिः । षष्ठे शिवभक्तपूजा । सप्तमे मुक्तिसाधनम्। अष्टमे कालपरिमाणतदनवच्छिन्न स्वरूपकथनम् । नवमे पृथिव्युद्धरणम् । दशमे ब्रह्मणा सृष्टिकथनम् । एकादशे हिरण्यगर्भादिविशेषसृष्टिः। द्वादशे जातिनिर्णयः । त्रयोदशे तीर्थमाहात्म्यम् ॥ ॥ द्वितीयखण्डे विंशतिरध्यायाः ॥ तत्र प्रथमेऽध्यापे ज्ञानयोगसंप्रदायपरंपरा । द्वितीय आत्मना सृष्टिः । तृतीये ब्रह्मचर्याश्रमविधिः । चतुर्थे गृहस्थाश्रमविधिः । पञ्चमे वानप्रस्थाश्रमविधिः । षष्ठे संन्यासविधिः । सप्तमे प्रायश्चित्तम् । अष्टमे दानधर्मफलम् । नवमे पापकर्मफलम् । दशमे पिण्डोत्पत्तिः । एकादशे नाडीचक्रम् । द्वादशे नाडीशुद्धिः । त्रयोदशेऽष्टाङयोगे यमविधिः । चतुर्दशे नियमविधिः । पञ्चदश आसनविधानम् । षोडशे प्राणायामविधिः । सप्तदशे प्रत्याहारविधानम् । अष्टादशे धारणाविधिः । एकोनविंशे ध्यानविधिः । विशे समाधिः ॥ ॥तृतीये मुक्तिखण्डे नवाध्यायाः॥ तत्र प्रथमे मुक्तिमुक्त्युपायमोचकमोचकपदचतुर्विधमश्नः । द्वितीये १ स्व. पूजाप्रतिपादनं । - For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy