________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
[१ शिवमाहात्म्यखण्डे
द्वितीयां संहितां वक्ष्ये सर्वपापप्रणाशिनीम् । मुनिभिर्देवगन्धर्वैः पूजितामतिशोभनाम् ॥ २५ ॥
इत्थं विभागमभिधाय विवक्षितां संहितां सूतः प्रतिजानीते ॥ द्वितीयां संहितां वक्ष्य इति ॥ २५ ॥
चतुर्धा खण्डिता साऽपि पवित्रा वेदसंमिता । शिवमाहात्म्यखण्डाख्यः प्रथमः परिकीर्तितः ॥ २६॥ यद्यपि खण्डान्तरेष्वपि शिवमाहात्म्यमुच्यते तथाऽपि प्रथमस्य तत्माधान्यात्तेन व्यपदेशः ॥ २६ ॥
द्वितीयो ज्ञानयोगाख्यः सर्ववेदान्तसंग्रहः ।
तृतीयो मुक्तिखण्डाख्यश्चतुर्थो यज्ञवैभवः ॥ २७ ॥ द्वितीयो ज्ञानयोगाख्य इति । ज्ञानस्य योगा उपाया यमनियमादयो ज्ञानयोगा आख्यायन्ते ऽस्मिनित्याख्यः । ' आतश्चोपसर्गे' इति कप्रत्ययः । ज्ञानयोगानामाख्य इति संबन्धसामान्यपष्टयाः समासस्य तु प्रकृते संबन्धविशेषे कर्मत्वे योग्यताबलात्पर्यवस्यति । नच कर्मणि षष्ठचैव समासः स किं न स्पादिति वक्तव्यम् । 'कर्मण्यण्' इत्यनेन परेण बाधापातादिति । यज्ञवैभवखण्डे तु यज्ञायज्ञविशेषा वक्ष्यन्ते ते सर्वे ज्ञानात्मका एव यज्ञाः । इह तु तदुपाया यमनियमादय इत्यसंकरः । यज्ञवैभव इति । यज्ञानां वैभवः प्रभावोऽस्मिन्निति यज्ञवैभवः ॥ २७ ॥
आद्यः सप्तशतं प्रोक्तो ग्रन्थतः पण्डितोत्तमाः । द्वितीयो ग्रन्थतः सप्तशतं त्रिंशत्ततोऽधिकम् ॥ २८ ॥ ततोऽधिकं च सप्तैव मुनयः परिकीर्तितः । तृतीयः षट्शतं विप्राः सप्तत्रिंशद्विवर्जितः ॥ २९ ॥ आद्यः सप्तशतमिति । सप्तानां शतानां समाहारः सप्तशतमिति समाहारे द्विगुः | अकारान्तत्वेन प्राप्तं स्त्रीलिङ्गत्वं 'पात्रादिभ्यः प्रतिषेधः' इत्यनेन निषिध्यते । नन्वेकोऽयं खण्डः कथं सप्तशतसमाहारात्मकः । अत उक्त ग्रन्थत इति । ग्रन्थद्वारा स्वावयवभूतानां ग्रन्थानां सप्तशत समाहारात्मकत्वात्तदभेदेन स्वयमपि सप्तशतमित्यर्थः । ततोऽधिकमिति । अधिकं च किंचिदस्तीति
For Private And Personal Use Only