SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः१] सूतसंहिता। ततो वासिष्ठलैङ्गाख्यं प्रोक्तं माहेश्वरं परम् । ततः साम्बपुराणाख्यं ततः सौरं महाद्रुतम् ॥ १७ ॥ पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् । भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् ॥ १८॥ उपपुराणान्यष्टादशानुक्रामति-आद्यं सनत्कुमारेण प्रोक्तमित्यादिना ॥ ॥ १३ ॥ १४ ॥ १५॥ १६ ॥ १७ ॥ १८ ॥ लक्षं तु ग्रन्थसंख्याभिः सर्वविज्ञानसागरम् । स्कान्दमद्याभिवक्ष्यामि पुराणं श्रुतिसंमितम् ॥ १९॥ पड्विधं संहिताभेदैः पञ्चाशत्खण्डमण्डितम् । आद्या सनत्कुमारोक्ता द्वितीया सूतसंहिता ॥२०॥ अथेदानी विवक्षितां सूतसंहितामवतारयितुमनुक्रान्तानां पुराणानां मध्ये त्रयोदशस्य स्कान्दपुराणस्य संहितापदविभागमाह-स्कान्दमद्याभिवक्ष्यामीति ॥ १९ ॥ २०॥ तृतीया शांकरी विप्राश्चतुर्थी वैष्णवी मता। तत्परा संहिता ब्राह्मी सौराऽन्त्या संहिता मता ॥२१॥ ग्रन्थतः पञ्चपञ्चाशत्सहस्रेणोपलक्षिता। आद्या तु संहिता विप्रा द्वितीया षट्सहस्रिका ॥२२॥ तृतीया ग्रन्थतस्त्रिंशत्सहस्रेणोपलक्षिता । तुरीया संहिता पञ्चसहस्रेणाभिनिर्मिता ॥ २३ ॥ ततोऽन्या त्रिसहस्रण ग्रन्थेनैव विनिर्मिता । अन्या सहस्रतः सृष्टा ग्रन्थतः पण्डितोत्तमाः॥२४॥ सौराऽन्त्येति । सूरसंबन्धि सौरम् । तदस्यामस्तीति सौरा 'अर्शआदिभ्योऽन्' इत्यजन्तं मत्वर्थीयान्ताट्टाप् । सूरस्येयं संहितेति व्युत्पत्तौ 'तस्येदम्' इत्यणन्तान्डीपा भवितव्यमिति ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ १ ग. ७. लेणोपलक्षिता। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy