SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिका समेता | [१] शिवमाहात्म्यखण्डे दम्' इत्यणि 'नस्तद्धिते' इति टिलोपस्य अन्निति प्रकृतिभावेन निरासेऽपि 'ब्राह्मोऽजातो' इति निपातनाट्टिलोपः ॥ ७ ॥ ततो भागवतं प्रोक्तं भविष्याख्यं ततः परम् । सप्तमं नारदीयं च मार्कण्डेयं तथाSष्टमम् ॥ ८ ॥ आग्नेयं नवमं पश्वाद्ब्रह्मवैवर्तमेव च । ततो लैङ्गं वराहं च ततः स्कान्दमनुत्तमम् ॥ ९ ॥ वामनाख्यं ततः कौर्म मात्स्यं तत्परमुच्यते । गरुडाख्यं ततः प्रोक्तं ब्रह्माण्डं तत्परं विदुः ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षं पुराणं मुनिपुङ्गवाः । अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ ११ ॥ ॥ ८ ॥ ९ ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षमिति सङ्ख्याभिधानं प्रक्षेपविप्लवपरिहा राय ॥ ११ ॥ कामिकादिप्रभेदानां यथा देवो महेश्वरः । अष्टादशपुराणानि श्रुत्वा सत्यवतीसुताव ॥ १२ ॥ काभिककारणादीनामागमसंहितानां शिवेनैव प्रणयनात्प्रामाण्ये यथा विश्वम्भ एवं नारायणावतारेण व्यासेन प्रणयनात्पुराणेष्वप्यसार्वविशिष्ट इत्याहअष्टादशपुराणानामिति । नानामुनिप्रणीतानामुपपुराणानामप्येतन्मूलत्वादतेषां प्रणेतुर्व्यासस्य सार्वज्ञयं किं वक्तव्यमित्याह- अष्टादशपुराणानि श्रुत्वेति ॥ १२॥ अन्यान्युपपुराणानि मुनिभिः कीर्तितानि तु । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ॥ १३ ॥ द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च । चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः ॥ १४ ॥ षष्टंतु नारदीयाख्यं कापिलं सप्तमं विदुः । अष्टमं मानवं प्रोक्तं ततश्वोशनसेरितम् ॥ १५ ॥ ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् । ततः कालीपुराणाख्यं विशिष्टं मुनिपुङ्गवाः ॥ १६ ॥ १ क. वर्तमुच्यते । २ ङ. विकल्पपरि । ३ ङ ण्येन यं । ४ ख. 'ववशिष्ट । ५ म. ग. वामनं 1. For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy