________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- रज्ञानयोगखण्डेप्रणवं परमात्मानं जपेदयुतमादरात् ॥ दिजस्त्रीगमने भिक्षुरवकीर्णिव्रतं चरेत् ॥ २८॥ अन्यासु बुद्धिपूर्व चेत्तप्तकृच्छ्रे समाचरेत् ॥ हत्वा वैश्यं च राजानं ब्रह्महत्याव्रतं चरेत् ॥ २९॥ क्रमान्मासत्रयं पूर्व पाण्मासिकमनन्तरम् ॥ ब्राह्मणस्तु विमुच्येत शूद्रं हत्वाऽर्धमासतः ॥३०॥ विहिताकरणे तहत्पतिषिद्धातिसेवने ॥ वेदविप्लावने चैव गुरुद्रोहेऽन्यकर्मणि ॥ ३१॥ तप्तकृच्छं चरेत्तेन मुच्यते सर्वदोषतः॥ अथ वा सर्वपापानां विशुद्धयर्थ समाहितः ॥३२॥ कुर्वशुश्रूषणं नित्यं वेदान्तज्ञानभाषिणाम् ॥
श्रद्धाविनयसंयुक्तः शान्तिदान्यादिसंयुतः ॥ ३३ ॥ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥ २८ ॥२९॥ ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥
यावज्ज्ञानोदयं तावद्वेदान्तार्थ निरूपयेत् ॥ नास्ति ज्ञानात्परं किंचित्पापकान्तारदाहकम् ॥३४॥ मासमात्राविनश्यन्ति क्षुद्रपापानि सुव्रत ॥ षण्मासश्रवणात्सवै नश्यत्येवोपपातकम् ॥ ३५॥ महापातकसंघाश्च नित्यं वेदान्तसेवनात् ॥
नश्यन्ति वत्सरात्सर्वे सत्यमुक्तं बृहस्पते ॥ ३६ ॥ नास्ति ज्ञानादिति । उक्तं गीतामु"यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा" इति ॥३४॥३५॥३६॥ यः श्रद्धया युतो नियं वेदान्तज्ञानमभ्यसेत् ॥ तस्य संसारविच्छित्तिः श्रवणादिति हि श्रुतिः॥३७॥
१ क. स्व. ग. 'वै षण्मा । २ ङ. निवेदयेत् ।
For Private And Personal Use Only