________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः७]
सूतसंहिता। यः श्रद्धयेति । श्रवणाच्छब्देशक्तितात्पर्यावधारणन्यायानुसंधानमुखेन वेदान्तज्ञानमभ्यसेत् । तस्य संसारविच्छित्तिरित्यस्मिन्नर्थे श्रुतिरस्तीत्यर्थः । सा चेयम्
"वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे" इति ॥३७॥ एवमभ्यसतस्तस्य यदि विनोऽभिजायते ॥
सर्वलोकान्क्रमामुक्त्वा भूमौ विप्रोऽभिजायते ॥३८॥ एवमभ्यसत इति । अर्जुनं प्रति भगवतोक्तम्
"प्राप्य पुण्यकृताल्लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" इति ॥ ३८ ॥ सर्वलक्षणसंपन्नः शान्तः सत्यपरायणः ॥
पुनश्च पूर्वभावेन विद्वांसं पर्युपासते ॥३९॥ पुनश्चेति ।
'पूर्वाभ्यासेन तेनैव हियते झवशोऽपि सः" इति । पर्युपासते । पर्युपास्ते । शपो लुगभावश्छान्दसः ॥ ३९ ॥
तत्संपर्कात्स्वमात्मानमपरोक्षीकृतो मुनिः ॥ स्वमादिव विमुच्येत स्वसंसारमहोदधेः॥४०॥ तस्मात्सर्वप्रयत्नेन स्वमुक्यर्थ बृहस्पते ॥
सर्वदा सर्वमुत्सृज्य वेदान्तश्रवणं कुरु ॥४१॥ इति श्रीसुतसंहितायां ज्ञानयोगखण्डे प्रायश्चित्तवि
विनिरूपणं नाम सप्तमोऽध्यायः ॥७॥ अपरोक्षीकृत इति । संपदादित्वादावे क्विम् । आत्मानं प्रति यदपरोक्षीकरणं तस्मादित्यर्थः ॥ ४० ॥ ४१ ॥ इति श्रीमतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे प्रायश्चित्त
विधिनिरूपणं नाम सप्तमोऽध्यायः ॥ ७ ॥
१ क. ग. ङ. 'ब्दता।
For Private And Personal Use Only