SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः७] सूतसंहिता। १६३ 'कृच्छातिकृच्छ्रः पयसा दिवसानेकविंशतिम्' इति । एकभक्तनतायाचितदिवसेषु यो भोजनकालस्तस्मिन्नेव काले केवलमुदकेन वा वर्तनं कृच्छ्रातिकृच्छो भवतीत्यर्थः ॥ १८ ॥ खसारं मुनिशार्दूल गत्वा दुहितरं तु वा ॥ कृच्छं सांतपनं कुर्यादोषशुद्धयर्थमात्मनः ॥ १९ ॥ कच्छं सांतपनमिति । तल्लक्षणमाह याज्ञवल्क्यः -- "गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रं चोपवसेत्कृच्छं सांतपनं भवेत्" इति ॥ १९ ॥ भ्रातृभार्याभिगमने चान्द्रायणचतुष्टयम् ।। चरेत्पापविशुद्धयर्थ संतप्तो ब्राह्मणोत्तमः ॥ २० ॥ पैतृष्वसेयीगमने मातुलादुस्थितां स्त्रियम् ॥ चान्द्रायणं चरेदेकं कामतोऽकामतोऽपि वा ॥ २१ ॥ अवशिष्टासु सर्वासु द्विजस्त्रीषु महामुने ॥ गत्वा कृच्छू चरेत्तप्तमेकं तदोषशान्तये ॥ २२॥ क्षत्रियाणां च वैश्यानां स्त्रीषु गत्वा दिजश्चरेत् । कृच्छ्रमन्यासु बहुशो गत्वा कृच्छ्रे चैरेद्विजः ॥ २३॥ ब्रह्मचारी स्त्रियं गत्वा कामतो मुनिसत्तम ॥ संवत्सरं चरेफ्रेक्ष्यं वसित्वा गर्दभाजिनम् ॥ २४ ॥ स्वपापकीर्तनं कुर्वन्नात्वा त्रिषवणं पुनः॥ तस्मात्पापात्प्रमुच्येत षण्मासाकामवर्जितः ॥२५॥ अग्निकार्यपरित्यागे रेतोत्सर्गे समाहितः ।। नाला प्रणवसंयुक्तां व्याहृती च तथैव च ॥ २६ ॥ सावित्री सशिरां मौनी जपेदयुतमादराद ।। यतीनामिन्द्रियोत्सर्गे नाला शुद्धः समाहितः ॥२७॥ १ क. ग. 'सेयाग । २ घ. चरेवुधः। ३ ग. कुर्यात्मात्वा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy