________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे-- पश्चाही यथाशास्त्रं कुर्यादहनमुत्तमम् ॥ अश्वमेधफलं तस्य नानमात्रादिशुद्धता ॥४२॥ सर्वमुक्तं समासेन तव शिष्यस्य धीमतः॥
तस्मादेतद्विजानीहि वेदान्तार्थप्रकाशनम् ॥ ४३ ॥ इति श्रीसूतसंहितायां ज्ञानयोगखण्डे संन्यासविधि
निरूपणं नाम षष्ठोऽध्यायः ॥ ६॥ अश्वत्थे स्थापित इति । तेनाध्वर्गुणा । तत्राश्वत्थस्य स्थापनमात्रेणापि शिवलिङ्गस्थापनेन यत्फलं तल्लभ्यत इत्यर्थः । तस्य प्रकृतस्य तस्मिन्स्थाने स्थापितस्याश्वत्थस्य महेश्वरस्य वो दर्शनस्पर्शनाभ्यां सर्वपातकनाश इत्यर्थः ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे संन्यासविधिनि
रूपणं नाम षष्ठोऽध्यायः ॥ ६॥
( अथ सप्तमोऽध्यायः)
ईश्वर उवाच
अथातः संप्रवक्ष्यामि प्रायश्चित्तं समासतः॥
दोषाणामपनुत्त्यर्थ सर्वभूतानुकम्पया ॥१॥ नित्यधर्माभिधानानन्तरं नैमित्तिकधर्माभिधानायाध्यापान्तरमारभ्यते-- अथात इति । यत उक्तस्य विधिनिषेधात्मकस्य नित्यस्य धर्मस्य प्रमादादिना व्यतिक्रमे तनिमित्तप्रायश्चित्तापेक्षाऽतो नित्यानन्तरं तदुच्यत इत्यर्थः ॥ १॥
ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः॥
एते वेदविदां श्रेष्ठा महापातकिनः स्मृताः॥२॥ अपनोदनीयान्प्रधानदोषाननुक्रामति-ब्रह्महेति। तथाच च्छान्दोग्योपनिषदि 'स्तेनो हिरण्यस्य सुरां पिवःश्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाऽऽचरंस्तैः" इति ॥ २॥
१. च । २६. रमते ।
For Private And Personal Use Only