SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः७] सूतसंहिता। एभिः सह वसेद्यस्तु संवत्सरमसावपि ॥ ब्रह्महा निर्जनेऽरण्ये कुटीं कृत्वा वसेन्नरः ॥३॥ हादशाब्दानि संतप्तः सर्वदा विजितेन्द्रियः ॥ भिक्षामाहृत्य भुञ्जीत स्वदोषं ख्यापंयन्त्रणाम् ॥४॥ वसेदिति वचनात्सहवासादिनैव संवत्सरात्पातित्यम् । पाजनाध्यापनयौनसंबन्धैस्तु सद्यः पातित्यम् । यदाह याज्ञवल्क्यः "संवत्सरेण पतति पतितेन सहाऽऽचरन् । याजनाध्यापनाद्यौनान्न तु पानाशनादितः" इति । उक्तनिमित्तानामुद्देशक्रमेण प्रायश्चित्तान्याह-ब्रह्महा निर्जन इत्यादि ॥ ३ ॥ भुञ्जीतेति ॥ ४ ॥ शाकमूलफलाशी वा कृत्वा शवशिरोध्वजम् ॥ संपूर्ण द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥५॥ अकामकृतदोषस्य प्रायश्चित्तमिदं मुने । कामतश्चेन्मुनिश्रेष्ठ प्राणान्तिकमुदीरितम् ॥६॥ अथवा मुनिशार्दूल पापशुद्धयर्थमात्मनः॥ ग्रामादनलमाहृत्य प्रविशेत्परितापतः ॥७॥ पश्चादनशनो भूत्वा धर्मयुद्धेऽथ वाऽनले ॥ अप्सु वा मुनिशार्दूल महाप्रस्थानकेऽपि वा ॥८॥ ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान्परित्यजेत् ॥ सुरापानादिदोषोऽपि नश्यत्येतेन सुव्रत ॥९॥ अग्निवर्णी सुरां तप्तां प्राणविच्छेदनक्षमाम् ॥ पीत्वा नष्टशरीरस्तु सुरापानात्प्रमुच्यते ॥ १०॥ गोमूत्रं वा घृतं तोयं गोशकद्रसमेव वा ॥ अतितप्तं पिबेत्तेन मृतो मुच्येत दोषतः ॥११॥ १ घ. ङ. 'पये। २ ग. 'म् । यज । ३ घ, ङ, नयोनिसं॰ । ४ ख. 'नादन्नपानाशनासनातू" ई। ५ घ. उक्तानां नि' । ६ ग. 'नामनु । ७ ङ. 'तापितः । ८ घ. 'श्यते ते । २१ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy