________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ६]
सूतसंहिता ।
१५९
जाबालश्रुतिः | अक्रमतो वेति । " यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा" इति तत्रैव ॥ ३१ ॥
उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः ॥ आरूढपतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ३२ ॥ प्रव्रजन्तं द्विजं दृष्ट्वा स्थानाञ्चलति भास्करः ॥ एष मे मण्डलं भित्त्वा ब्रह्मलोकं गमिष्यति ॥ ३३ ॥ रूपं तु द्विविधं प्रोक्तं चरं वाऽचरमेव च ॥ चरं संन्यासिनां रूपमचरं मृन्मयादिकम् ॥ ३४ ॥ यस्याऽऽश्रमे यतिर्नित्यं वर्तते मुनिसत्तम ॥ न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते ॥ ३५ ॥ दुर्वृत्तो वा सुवृत्तो वा मूर्खो वा पण्डितोऽपि वा ॥ वेषमात्रेण संन्यासी पूज्यः सर्वेश्वरो यथा ॥ ३६ ॥ ब्रह्मचर्याश्रमस्थानां ब्रह्मा देवः प्रकीर्तितः ॥ गृहस्थानां च सर्वे स्युर्यतीनां तु महेश्वरः ॥ ३७ ॥ वानप्रस्थाश्रमस्थानामादित्यो देवता मता ॥ तस्मात्सर्वेषु कालेषु पूज्यः संन्यासिनां हरः ॥ ३८ ॥ मृते न दहनं कार्ये परहंसस्य सर्वदा ॥ कर्तव्यं खननं तस्य नाशौचं नोदकक्रिया ॥ ३९ ॥
॥ ३२ ॥ ३३ ॥ ३४ || ३६ || ३६ || ३७ ॥ ३८ ॥ ३२ ॥
अश्वत्थस्थापनं कार्यं तद्देशेऽध्वर्युणा मुने ॥ अश्वत्थे स्थापिते तेन स्थापितो हि महेश्वरः ॥ ४० ॥ दर्शनात्स्पर्शनात्तस्य सर्वे नश्यति पातकम् ॥ अन्येषामपि भिक्षूणां खननं पूर्वमाचरेत् ॥ ४१ ॥
१ ग. बालिश्रु । २ ख. 'कर्म' । ३ ख च ।
For Private And Personal Use Only