________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५८
तात्पर्यदीपिकासमेता
[२ज्ञानयोग खण्डे
लोभमोहपरित्यागं दम्भदर्पादिवर्जनम् ॥ चातुर्मास्यं च सर्वेषां वदन्ति ब्रह्मवादिनः ॥ २६ ॥
चातुर्मास्यमिति । वर्षास्वेकत्र वासं चत्वारो मासाश्चातुर्मास्यम् । तद्धितार्थे द्विगु: । 'चतुर्वर्णादिभ्यः स्वार्थे' इति ष्यञ् || २६ || कुटीचकाश्च हंसाश्च तथैव च बहूदकाः ॥ सावित्रीमात्रसंपन्ना भवेयुर्मोक्षकारणात् ॥ २७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सर्वेषां चतुर्विधानां यतीनां परमहंसव्यतिरिक्तस्य प्रधानं जप्यमाह -कुटीचका इति । मोक्षं प्रयोजनमुद्दिश्य सावित्र्यैव तत्त्वमनुसंदध्युरित्यर्थः ||२७|| प्रणवाद्यास्त्रयो वेदाः प्रणवे पर्यवस्थिताः ॥ तस्मात्प्रणवमेवैकं परहंसः सदा जपेत् ॥ २८ ॥
परमहंसस्य प्रणवैकनिष्ठतां विवक्षुः प्रणवस्योत्कृष्टतामाह - प्रणवाद्या इति । ॐमिति ब्राह्मणः प्रवक्ष्यन्नाह"ब्रह्मोपाप्रवानीति" "ब्रह्मेवोपाप्रोति" इति श्रुतेः । प्रणवे पर्यवस्थिता इति । प्रणवस्य वेदत्रयसारत्वात्तत्प्रतिनिधित्वम् । तथात्वं च श्रूयते छन्दोगोपनिषदि बहूवृचब्राह्मणे च । लोकदेव वेदव्याहृत्यक्षरत्रयसारत्वं प्रणवस्य । तैत्तिरीयोपनिषदि च ब्रह्मयज्ञप्रकरणे “ ॐमिति प्रपद्यत एतद्वै यजुari विद्यां प्रति" इति ॥ २८ ॥
संध्याकालेषु शुद्धात्मा प्रणवेन समाहितः ॥ षट्प्राणायामकं कुर्याज्जपेदष्टोत्तरं शतम् ॥ २९ ॥ विविक्तदेशमाश्रित्य सुखासीनः समाहितः ॥ यथाशक्ति समाधिस्थो भवेत्संन्यासिनां वरः ॥ ३० ॥ षडिति । षण्णां प्राणायामानां समाहारः षट्प्राणायामम् | 'पात्रादिभ्यः प्रतिषेधः' इति न ङीप् । स्वार्थे कप्रत्ययः || २९ ॥ ३० ॥ क्रमाद्वाऽक्रमतो विद्वानुत्तमां वृत्तिमाश्रयेत् ॥ उत्तमां वृत्तिमापन्नो न नीचां वृत्तिमाश्रयेत् ॥ ३१ ॥ क्रमादिति । “ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्" इति
१ घ. "हंसातिरिं । २ क. ख. ग. ङ. मन्त्रादिभ्यः ।
For Private And Personal Use Only