________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः६]
सूतसंहिता। मृत्पात्रमिति । एतच्चालाबुपात्रस्याप्युपलक्षणम् । 'मृत्पात्रमलाबुपात्रं दारुपात्रं वा' इत्यारुणिश्रुतेः । उद्दिष्टमध्य उपादेयमाह-दारुपात्रमिति । एतच्च कांस्यव्यतिरिक्तस्योक्तस्योपलक्षणम् । उपादेयमन्यदपि समुच्चिनोति-तथोपरमिति ॥ २०॥
बहूदकानां हंसानां पाणिपात्रं तथोदरम् ॥ कांस्यपात्रं न विध्युक्तं मृत्पात्रमिति हि श्रुतिः ॥२१॥ माधूकरमथैकान्नं परहंसः समाचरेत् ॥ नात्यनतस्तु योगोऽस्ति न चैकान्तमनश्रतः ॥ २२ ॥ तस्माद्योगानुगुण्येन भुञ्जीत परहंसकः ॥ अभिशस्तं समुत्सृज्य सार्ववर्णिकमाचरेत् ॥ २३ ॥ उत्तरोत्तरलाभे तु पूर्व पूर्व परित्यजेत् ॥
गुरुशुश्रूषया नित्यमात्मज्ञानं समभ्यसेत् ॥ २४ ॥ एतच्च न केवलं परमहंसानामेवेत्याह-बहूदकानामिति । पात्रान्तरमपि समुच्चिनोति-पाणिपात्रमिति । यथोदरं तथा पाणिपात्रं चेत्यर्थः । तथाचाऽऽरुणिश्रुतिः-'पाणिपात्रमुदरपात्रंच' इति । उपादेयमभिधाय हेयमाहकांस्यपात्रं नेति । मृत्पात्र मिति हि श्रुतिरिति यथोदीरितारुणिश्रुतिः ॥२१॥ ॥ २२ ॥ २३ ॥ २४ ॥
नानं शौचमभिध्यानं सयानृतविवर्जनम् ॥
कामक्रोधपरित्यागं हर्षरोषविवर्जनम् ॥२५॥ सत्यात्तविवर्जनमिति । असत्यवत्सत्यमपि व्यवहारं शक्यं विवर्जयेत् । चित्तैकापविरोधादित्यर्थः । श्रूयते हि-तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चय' इति । स्मर्यते च___"त्यज धर्ममधर्मं च उभे सत्यासते त्यज ।
उभे सत्याते त्यक्त्वा येन त्यजर्सि तं त्यज"। इति ॥ २५ ॥
१ ग. "तिक्रमस्यो । २ . 'वर्जितम् । ३ ड, जानीय । ४ ग. 'सि तत्यन"।
For Private And Personal Use Only