________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
[रज्ञानयोगखण्डे
तात्पर्यदीपिकासमेता- (अथ षष्ठोऽध्यायः )
ईश्वर उवाच
अथातः संप्रवक्ष्यामि संन्यासं मुनिसत्तम ॥ चतुर्विधास्तु विज्ञेया भिक्षवो वृत्तिभेदतः ॥१॥ कुटीचको मुनिश्रेष्ठस्तथैव च बहूदकः॥ हंसः परमहंसश्च तेषां वृत्तिं वदामि ते ॥२॥ वनस्थप्रसाढ़ेनोद्दिष्टमेव कुटीचकादिचतुष्टयं तद्धर्माभिधानाय पुनरनुवदति । अधात इति । अत उक्तमाश्रमत्रयं धर्मस्कन्धः सांसारिकफलविषय एव । श्रूयते हि-त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव । द्वितीयो ब्रह्मचार्याचार्यकुलवासी । तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादय
सर्व एते पुण्यलोका भवन्तीति । अतस्ततो विरक्तस्यानन्तरमपुनरावृत्तिरूपब्रह्मप्राप्तये ज्ञानस्कन्धः संन्यास उच्यते । श्रूयते हि-"ब्रह्मसंस्थोऽमृतत्वमेति" इति । ब्रह्मणि संस्था सम्यनिष्ठा यस्य चतुर्थाश्रमिणः स ब्रह्मसंस्थः स एवामृतत्त्वमपवर्ग प्राप्नोति । आश्रमान्तराणामपि ब्रह्मसंस्थांत्यसंभवं प्रापय्य परिहृतं हि तत्त्वविद्भिः
"लोककाम्याश्रमी ब्रह्मनिष्ठामर्हति वा नवा । यथावकाशं ब्रह्मैव ज्ञातुमर्हत्यवारणात् ॥ अनन्यचित्तता ब्रह्मनिष्ठाऽसौ कर्मिणे कथम् ।
कर्मत्यागी ततो ब्रह्मनिष्ठामर्हति नेतरः" इति । विवृतं चैततैरेव त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानधिकृत्य "सर्व एते पुण्यलोका भवन्ति" इति । आश्रमानुष्ठायिनां पुण्यलोकमभिधाय "ब्रह्मसंस्थोऽमृतत्वमेति" इति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपाद्यते । सेयं ब्रह्मनिष्ठा पुण्यलोककामिन आश्रमिणोऽपि संभाव्यते । आश्रमकर्माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठायाः कर्तुं मुकरत्वात् । न हि लोककामी ब्रह्म न जानीयादिति निषेधोsस्ति, तस्मादस्ति सर्वस्याऽऽश्रमिणो ब्रह्मनिष्ठतेति प्राप्ते ब्रूमः-ब्रह्मनिष्ठा नाम सर्वव्यापारपरित्यागेनानन्यचित्ततया ब्रह्मणि समाप्तिः। नचासौ कर्मशूरे संभ
१ ङ. स्थावं सं। २ घ. प्राप्य । ३ ङ. 'श्रभो बा ४ ङ. हस्यवा'। ५ ङ. 'लोकानभि'। ६ ग. ह. "स्ति सी
For Private And Personal Use Only