SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय: ५ ] सूतसंहिता | १५३ मध्यम एकस्याब्दस्य संवत्सरस्य मध्ये सदा वायुमेव भक्षयन्नित्यर्थः ॥ ११ ॥ ॥ १२ ॥ १३ ॥ अथवाऽग्रीन्समारोप्य स्वात्मनि ध्यानतत्परः ॥ अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ १४ ॥ अधुना चतुर्थाश्रममाह । अथवाऽग्रीनित्यादि । स्मर्यते हि'आत्मन्यग्रीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इति । "अनग्निरनिकेतः स्थादशर्माऽशरणो मुनिः" इत्यापस्तम्बोऽप्याह ॥ १४ ॥ सदोपनिषदभ्यासपरो वा स्यात्समाहितः ॥ त्रिपुण्ड्रोनूलनं कुर्याद्गृहस्थस्योक्तमन्त्रतः ॥ १५ ॥ गृहस्थस्येति । गृहस्थस्य य उक्तस्त्रयम्बकमन्त्रः सप्रणवः पञ्चाक्षरश्च तेनेत्यर्थः ॥ १५ ॥ यदा वैराग्यमुत्पन्नं तदेव प्रत्रजेदनी ॥ बहूदके वा हंसे वा मुमुक्षुः परहंसके ॥ १६ ॥ यदेति । एषा च मत्रज्या सत्येव वैराग्ये कार्या । बहूदके वेतिवचनात्मातनी कुटीचकविषया कुटीचकबहूदकादिचातुर्विध्यं च वक्ष्यमाणत तद्धर्मानुष्ठानसामर्थ्यानुसारेण व्यवस्थया विकल्प्यते ॥ १६ ॥ सर्वे संग्रहरूपेण सम्यगुक्तं बृहस्पते ॥ तस्मात्सर्वप्रयत्नेन श्रद्धया विद्धि सुव्रत ॥ १७ ॥ इति श्रीमूतसंहितायां ज्ञानयोगखण्डे वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥ संग्रहरूपेणेति । संन्यासभेदानामुद्देशमात्रमत्र वनस्थेनानुष्ठेयतया वनस्थध ffort कथितम् । संन्यासधर्ममपञ्चस्त्वनन्तराध्याये वक्ष्यते ॥ १७ ॥ इति श्रीमूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे वानप्रस्थाश्रमविधिनिरूपणं नाम पञ्चमोऽध्यायः ॥ ५ ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy