________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता-
२ज्ञानयोगखण्डे
तथैव शुक्लपक्षादौ ग्रासं भुञ्जीत चापरम् ॥
ग्रासोपचयभोजी सन्पक्षशेषं समापयेत्' इति । यदाऽऽह यमः
'एकैकं हासपिण्डं कृष्णे शुक्ले च वर्धयेत् । एतत्पिपीलिकामध्यं चान्द्रायणमुदाहृतम् ।। वर्धयेत्पिण्डमेकैकं शुक्ले कृष्णे च हासयेत् । एतच्चान्द्रायणं नाम यवमध्यं प्रकीर्तितम् ।। त्रीस्त्रीन्पिण्डान्समश्नीयानियतात्मा दृढव्रतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम् ।। चतुरः प्रातरश्नीयाच्चतुरः सायमेव वा। पिण्डानेतद्धि बालानां शिशुचान्द्रायणं स्मृतम् ॥ पिण्डानष्टौ समश्नीयान्मासं मध्यंदिने रवौ ।
यतिचान्द्रायणं शेतत्सर्वकल्मषनाशनम्' इति ॥ ९ ॥ ग्रीष्मे पञ्चतपाश्च स्यावर्षास्वभावकाशगः ॥
आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः॥ १०॥ पञ्चतपा इति । पञ्च तपांसि तापकानि दिक्चतुष्टयेऽनय उपर्यादित्यश्चेति यस्य स पश्चतपाः । अनावकाशग इति । अनदर्शनवानवकाशोऽभ्रावकाशो गृहबाह्यश्चत्वरादिकस्तत्र गत इत्यर्थः ॥ १० ॥
उपस्पृश्य विषवणं पितृदेवांश्च तर्पयेत् ॥ एकपादेन तिष्ठेत वायुभक्षोऽब्दमध्यमे ॥ ११ ॥ पयः पिबेच्छुक्लपक्षे कृष्णपक्षे च गोमयम् ॥ जीर्णपर्णाशनो वा स्यात्कृच्छै; वर्तयेत्सदा ॥१२॥ योगाभ्यासपरो भूत्वा ध्यायेत्पशुपति शिवम् ॥
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥ १३ ॥ उपस्पृश्य स्नात्वा । उपपूर्वः स्टशिः स्नाने प्रयुज्यते त्रिषवणमुदकोपस्पर्शी चतुर्थकालपानभक्तः स्पादित्यादौ । वायुभक्षः पवनाहारः । तदशक्तौ पयःप्रभृति शक्त्यनुसारेण कुर्यादित्यर्थः । स्मर्यते हि'मूलं फलं पय आपो वायुराकाश इति । उत्तरयुत्तरं ज्यायः' इति । अब्द.
For Private And Personal Use Only