SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१ अध्यायः५] सूतसंहिता। पञ्च यज्ञानिति । श्रूयते हि-'पञ्च वा एते महायज्ञाः । देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । यदग्नौ जुहोत्यपि समिधं तदेवयज्ञः संति ते । यत्पितृभ्यः स्वधा करोत्यप्यपस्तपितृयज्ञः संतिष्ठते । यद्भूतेभ्यो बलिं. हरति तद्भूतयज्ञः संतिष्ठते । यद्राह्मणेभ्योऽन्न ददाति तन्मनुष्ययज्ञः संतिष्ठते । यत्स्वाध्यायमधीयीतकामप्यूचं यजुः साम वा तद्ब्रह्मयज्ञः संतिष्ठते' इति ॥५॥६॥ वर्जयेन्मधमांसानि औमानि वनजानि च ॥ एकवारं समश्नीयाद्रात्रौ ध्यानपरो भवेत् ॥७॥ जितेन्द्रियो जितक्रोधो भवेदध्यात्मचिन्तकः॥ भूमौ शयीत सततं सावित्री च जपेद्बुधः ॥८॥ भौमानीति । शशादीनि । वनजानीति । वनं जलम् । जलजानि कच्छपा "पञ्च पञ्चनखा भक्ष्या गोधाकच्छपशल्लकाः ॥ शशश्च नकुलश्च" इति गृहस्थस्याभ्यनुज्ञातान्यपि । तथा मधु माक्षिकं च वनस्थेन वर्जनीयमित्यर्थः ॥ ७ ॥८॥ क्रोधपैशून्यनिद्रादि दूरतः परिवर्जयेत् ॥ कृच्छ्रे चान्द्रायणं कुर्यान्मासि मासि वने स्थितः॥९॥ कृच्छं चान्द्रायणमिति । कृच्छ्रलक्षणानि मनुनोकानि "यहं प्रातस्त्र्यहं सायं व्यहमद्यादयाचितम् । व्यहं परं तु नाश्नीयात्माजापत्यं चरन्द्विजः" इति ॥ एकभक्तादिषु ग्राससंख्याऽऽपस्तम्बेन 'सायं द्वाविंशतिसाः प्रातः षड्रिंशतिः स्मृताः॥ चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम्' इति ॥ तत्पमाणमपि तेनैवोक्तम् 'कुक्कुटाण्डप्रमाणेन यथाचाऽऽस्यं विशेत्सुखम्' इति ॥ चान्द्रायणं पञ्चविधम् । पिपीलिकामध्यं यवमध्यमृषिचान्द्रायणं शिशुचान्द्रायणं पतिचान्द्रायणं चेति । पिपीलिकामध्यमाह वसिष्ठः 'मासस्य कृष्णपक्षादौ ग्रासानद्याच्चतुर्दश । ग्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy