________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
तात्पर्य दीपिकासमेता
( अथ पञ्चमोऽध्यायः )
Acharya Shri Kailassagarsuri Gyanmandir
[२ज्ञानयोगखण्डे
ईश्वर उवाच -
अथातः संप्रवक्ष्यामि वानप्रस्थाश्रमं मुने ॥ पुत्रे भार्या विनिक्षिप्य गृहीत्वा वा समाहितः ॥ १ ॥ शुक्लपक्षे शुभे वारे शुभनक्षत्रसंयुते ॥ सुमुहूर्ते वनं गच्छेद्गृहस्थश्वोत्तरायणे ॥ २ ॥
ब्रह्मचर्यात्तमं गार्हस्थ्यमभिधाय ततोऽप्युत्तमं वानप्रस्थाश्रमं च वक्तुं प्रतिजानीते - अथात इति । यतो गृहस्थादुत्तमो वनस्थः । पदाऽऽडु: - 'ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ॥
चत्वार आश्रमाः प्रोक्ता यो यः पश्चात् उत्तमः' इति ॥ अतो गृहस्थधर्माभिधानानन्तरं वानप्रस्थधर्माभिधानमित्यर्थः ॥ १ ॥ २ ॥ यमादिसहितः शुद्धस्तपः कुर्यात्समाहितः ॥ शाकमूलफलाशी स्यात्तेनेशं पूजयेदुधः ॥ ३ ॥ नेशमिति । तपःप्रभृतिकं हि वनस्थस्य स्वधर्मः । स्वधर्मानुष्ठानमेवेश्वरस्य पूजा ॥
'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' इत्युक्तम् ॥ ३ ॥ ग्रामादाहृत्य वाऽश्रीयाद्वासान्षोडश बुद्धिमान् ॥ जटाश्च बिभृयान्नित्यं नखलोमानि नोत्सृजेत् ॥ ४ ॥ षोडशेति । यत आहु:
"अष्टौ ग्रासा मुनेः प्रोक्ताः षोडशारण्यवासिनः ॥
द्वात्रिंशत् गृहस्थानां यथेष्टं ब्रह्मचारिणाम्" इति ॥ ४ ॥
For Private And Personal Use Only
वेदाभ्यासं सदा कुर्याद्याग्यतः सुसमाहितः ॥ अग्निहोत्रं च जुहुयात्पञ्च यज्ञान्समाचरेत् ॥ ५ ॥ चीरवासा भवेत्कुर्यात्नानं त्रिषवणं बुधः ॥ सर्वभूतानुकम्पी स्यात्प्रतिग्रहविवर्जितः ॥ ६ ॥